॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गौरीं सौभाग्यदायिनीम् ॥
पश्चिमे रावणेशस्य धनुषां पञ्चके स्थिताम् ॥ १ ॥
यत्रातप्यत्तपो घोरं स्वयं देवी ह्यरुन्धती ॥
सौभाग्यं काङ्क्षमाणा सा गौरीपूजापरायणा ॥ २ ॥
सम्प्राप्ता परमां सिद्धिं तस्या देव्याः प्रभावतः ॥
तृतीयायां शुक्लपक्षे माघे मासि वरानने ॥ ३ ॥
यस्तां पूजयते भक्त्या स सौभाग्यमवाप्नुयात्॥
अन्यजन्मनि देवेशि नात्र कार्या विचारणा ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सौभाग्येश्वरीमाहात्म्यवर्णनन्नाम चतुर्विशत्युत्तरशततमोऽध्यायः ॥१२४॥