॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं चित्राङ्गदेश्वरम् ॥
तस्यैव नैर्ऋते भागे धनुर्विंशतिभिः स्थितम्॥ १ ॥
चित्राङ्गदेन देवेशि गन्धर्वपतिना प्रिये ॥
क्षेत्रं पवित्रं ज्ञात्वा वै लिङ्गं तत्र प्रतिष्ठितम् ॥
कृत्वा तपो महाघोरं समाराध्य महेश्वरम् ॥ २ ॥
अथ यो भावसंयुक्तस्तल्लिगं सम्प्रपूजयेत् ॥
गान्धर्वलोकमाप्नोति गन्धर्वैः सह मोदते ॥ ३ ॥
तत्र शुक्लत्रयोदश्यां संस्नाप्य विधिना शिवम् ॥
पूजयेद्विविधैः पुष्पैर्गन्धधूपैरनु क्रमात् ॥
स प्राप्नोत्यखिलं कामं मनसा यद्यदीप्सितम् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्राङ्गदेश्वरमाहात्म्यवर्णनन्नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥ १२२ ॥