१२० माहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गोपीश्वरमनुत्तमम् ॥
बलातिबलदैत्यघ्न्या उत्तरे धनुषां त्रये ॥ १ ॥
संस्थितं पापशमनं गोपीभिः सम्प्रतिष्ठितम् ॥
समाराध्य महादेवं पुत्रहेतोर्महेश्वरम् ॥
सर्वकामप्रदं नॄणां पूजितं सन्ततिप्रदम् ॥ २ ॥
चैत्रशुक्लतृतीयायां यस्तं पूजयते नरः ॥
गन्ध पुष्पोपहारैश्च स प्राप्नोतीप्सितं फलम् ॥ ३ ॥
एवं सङ्क्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
गोपीश्वरस्य देवस्य प्रभासक्षेत्रवासिनः ॥ ४ ॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलातिबलदैत्यघ्नीमाहात्म्ये गोपीश्वर माहात्म्यवर्णनन्नाम विंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥