॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम् ॥ १ ॥
पापघ्नं सर्वजन्तूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसन्निधौ ॥ २ ॥
तपः कुर्वन्ति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुञ्जमेखलधारिणः ॥ ३ ॥
शान्ताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वन्ति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम् ॥ ४ ॥
कोटिसङ्ख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिङ्गं कपालेशसमीपगम् ॥ ५ ॥
ततस्ते पूजयाञ्चक्रुस्तल्लिङ्गं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः ॥ ६ ॥
ऋषयः कोटिसङ्ख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिङ्गं नाम्ना ख्यातं धरातले ॥ ७ ॥
यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः ॥ ८ ॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत् ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनन्नाम चतुरधिक शततमोऽध्यायः ॥ १०४ ॥