ततो गच्छेन्महादेवि देवीं कण्टकशोधिनीम् ॥
तस्यैवोत्तरदिग्भागे धनुर्द्वितयसंस्थिताम् ॥ १ ॥
महिषघ्नीं महाकायां ब्रह्मदेवर्षिपूजिताम् ॥
पुरा ये कल्मषोपेता दानवा देवकण्टकाः ॥ २ ॥
युगेयुगे शोधयेत्तांस्तेन कण्टकशोधिनी ॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तामथार्चयेत् ॥ ३ ॥
पशुपुष्पोपहारैश्च दीपधूपैस्तथोत्तमैः ॥
तस्याऽरयो न जायन्ते यावद्वर्षं वरानने ॥ ४ ॥
यस्तां पश्यति सद्भक्त्या भूताया नित्यमेव वा ॥ । ॥
तं पुत्रमिव कल्याणी संरक्षति न संशयः ॥ ५ ॥
इति सङ्क्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
देवि कण्टकशोधिन्याः श्रुतं रक्षाकरं परम् ॥ ६ ॥
इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये साम्बादित्यसमीपवर्तिकण्टकशोधिनीमाहात्म्यवर्णनन्नाम द्व्युत्तरशततमोध्यायः ॥ १०२ ॥ ॥ छ ॥