॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तयोरुत्तरसंस्थितम् ॥
तथा वायव्यदिग्भागे ब्रह्मणो बालरूपिणः ॥ १ ॥
साम्बादित्यं सुरश्रेष्ठे यः साम्बेन प्रतिष्ठितः ॥
स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य तु ॥ २ ॥
पूर्वं मित्रवनं नाम तथा मुण्डीरमुच्यते ॥
प्रभासक्षेत्रमास्थाय साम्बादित्यस्तृतीयकः ॥ ३ ॥
तस्मिन्क्षेत्रे महादेवि पुरं यत्साम्बसञ्ज्ञकम् ॥
द्वितीयं शाश्वतं स्थानं तत्र सूर्यस्य नित्यशः ॥ ४ ॥
प्रीत्या साम्ब स्य तत्रार्को जनस्यानुग्रहाय च ॥
तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा ॥ ५ ॥
अवलोकयञ्जगत्सर्वं श्रेयोर्थं तिष्ठते सदा ॥
प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम्॥ ६ ॥
॥ देव्युवाच ॥ ॥
कोऽयं साम्बः सुतः कस्य यस्य नाम्ना रवेः पुरम् ॥
यस्य वाऽयं सहस्रांशुर्वरदः पुण्यकर्मणः ॥७॥
॥ ॥ ईश्वर उवाच ॥ ॥
य एते द्वादशादित्या विराजन्ते महाबलाः ॥
तेषां यो विष्णुसञ्ज्ञस्तु सर्वलोकेषु विश्रुतः ॥ ८ ॥
इहासौ वासुदेवत्वमवाप भगवान्विभुः ॥ ९ ॥
तस्य साम्बः सुतो जज्ञे जाम्बवत्यां महाबलः ॥
स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ॥
तेन संस्थापितः सूर्यो निजनाम्ना पुरं कृतम् ॥ 7.1.100.१० ॥
॥ देव्युवाच ॥ ॥
शप्तः कस्मिन्निमित्तेऽसौ पित्रा पुत्रः स्वयं पुनः ॥
नाल्पं स्यात्कारणं देव येनासौ शप्तवान्सुतम् ॥ ११ ॥
॥ ईश्वर उवाच ॥ ॥
शृणुष्वावहिता भूत्वा तस्य यच्छापकारणम् ॥
दुर्वासानाम भगवान्ममैवांशसमुद्भवः ॥ १२ ॥
अटमानः स भगवांस्त्रींल्लोकान्प्रचचार ह ॥
अथ प्राप्तो द्वारवतीं लोकाः सञ्जज्ञिरे पुरः ॥ १३ ॥
तमागतमृषिं दृष्ट्वा साम्बो रूपेण गर्वितः ॥
पिङ्गाक्षं जटिलं रूक्षं विस्वरूपं कृशं तथा ॥ १४ ॥
अवमानं चकारासौ दर्शनात्स्पर्शनात्तथा ॥
दृष्ट्वा तस्य मुखं मन्दो वक्त्रं चक्रे तथात्मनः ॥
चक्रे यदुकुलश्रेष्ठो गर्वितो यौवनेन तु ॥ १५ ॥
अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः ॥
साम्बं प्रोवाच भगवान्विधुन्वन्मुखमात्म नः ॥ १६ ॥
यस्माद्विरूपं मां दृष्ट्वा आत्मरूपेण गर्वितः ॥
गमने दर्शने मह्यमहङ्कारः कृतो यतः ॥
तस्मात्त्वं कुष्ठरोगेण न चिरेण ग्रसिष्यसे ॥ १७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां साम्बादित्यमाहात्म्योपक्रमे साम्बाय दुर्वाससा शापप्रदानवर्णनन्नाम शततमोऽध्यायः ॥ १०० ॥