॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि चण्डेश्वरमिति श्रुतम्॥
सोमेशाद्वायवे भागे धनुषां षष्टिभिः स्थितम्॥ १ ॥
दिव्यं लिङ्गं महादेवि सर्वपातकनाशनम् ॥
तत्पूर्वे तु युगे ख्यातं मनोः स्वायम्भुवान्तरे ॥ २ ॥
त्रेतायुगमुखे देवि पृथिव्या सम्प्रतिष्ठितम्॥
पूर्वमन्वन्तरे चास्मिल्ँलिङ्गं पृथ्वीश्वरं प्रिये ॥ ३ ॥
पुनश्चन्द्रेण तत्प्राप्तं लिङ्गं चन्द्रेश्वरं प्रिये ॥
ब्रह्महत्यादिपापानां नाशनं पुण्यवर्द्धनम् ॥ ४ ॥
तं दृष्ट्वा मानवो देवि सप्तजन्मसमुद्भवैः ॥
मुच्यते कल्मषैः सर्वैः कृतकृत्यस्तु जायते ॥ ५ ॥
॥ देव्युवाच ॥ ॥
कथं पृथ्वीश्वरं ख्यातं तल्लिङ्गं पाप नाशनम् ॥
कथं पुनः समाख्यातं चन्द्रेश्वरमिति प्रभो ॥
एतद्विस्तरतो ब्रूहि श्रोतुकामाहमादरात् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि कथा पापप्रणाशिनीम् ॥
यां श्रुत्वा मुच्यते जन्तुस्त्रिविधैः कर्मबन्धनैः ॥ ७ ॥
आसीत्पूर्वं महादेवि दैत्यभारार्द्दिता मही ॥ साऽधो व्रजन्ती सहसा गोरूपा सम्बभूव ह ॥ ८ ॥
इतस्ततो धावमाना न लेभे निर्वृतिं क्वचित् ॥
ततो वर्षशते पूर्णे भ्रममाणा क्वचित्क्वचित् ॥ ९ ॥
आससाद महाक्षेत्रं प्रभासमिति विश्रुतम् ॥
देवदानवगन्धर्वैः सेवितं पापनाशनम्॥ 7.1.98.१० ॥
तत्र स्थित्वा महाक्षेत्रे कृत्वा मनसि निश्चयम् ॥
लिङ्गं प्रतिष्ठयामास भक्त्या परमया युता ॥ ११ ॥
वर्षाणां च शतं साग्रं कृते तपसि दुश्चरे ॥
तुतोष भगवान्रुद्रो धरित्रीं वाक्यमब्रवीत् ॥ १२ ॥
देवि विश्वम्भरे सर्वं तपः सुचरितं त्वया ॥
मा शोकं कुरु कल्याणि भविष्यति तवेप्सितम् ॥ १३ ॥
दैत्या नाशं गमिष्यन्ति विष्णुना निहता भुवि ॥
भवित्री त्वं महादेवि दैत्यभारविवर्जिता ॥ १४ ॥
इदं त्वया स्थापितं यल्लिङ्गं परमशोभनम् ॥
धरित्रीनाम्ना विख्यातं लोके ख्यातिं गमिष्यति ॥ ॥ १५ ॥
अत्राहं संस्थितो नित्यं लिङ्गरूपी महाप्रभुः ॥
स्थास्यामि कल्पेकल्पे वै नृणां पापापहारकः ॥ १६ ॥
मूर्त्यष्टकसमायुक्तो लिङ्गे ऽस्मिन्संस्थितः सदा ॥
नृणां नाशयिता पापं पूर्वजन्मशतार्जितम् ॥ १७ ॥
भाद्रे कृष्णतृतीयायां यश्चैतं पूजयिष्यति ॥
सोऽश्वमेधसहस्रस्य फलमाप्स्यत्यसंशयम् ॥ १८ ॥
सर्वतीर्थाभिषेकस्य सर्वेषां दानकर्मणाम् ॥
भविष्यति फलं तस्य लिङ्गस्यैवास्य पूजनात् ॥ १९ ॥
धनुषां षोडशं यावत्समन्तात्परिमण्डलम् ॥
क्षेत्रमस्य समाख्यातं प्राणिनां मुक्तिदायकम् ॥ 7.1.98.२० ॥
तस्मिन्मृताः प्राणिनो ये कामतो वाप्यकामतः ॥
कृमि कीटसमा वापि ते यान्ति परमां गतिम् ॥ २१ ॥
यो दद्यात्काञ्चनं मेरुं कृत्स्नां वाऽपि वसुन्धराम् ॥
यः पूजयति पृथ्वीशं स तयोरधिकः स्मृतः ॥२२॥
ईश्वर उवाच ॥ ॥
इति दत्त्वा वरान्देवस्तत्रैवान्तरधीयत ॥
पृथिवीश्वरनामाभूत्तत्प्रभृत्येव शङ्करः ॥ २३ ॥
पुनरस्मिन्महाकल्पे वाराह इति विश्रुते ॥
कदाचिद्दक्षशापेन क्षीणश्चन्द्रो बभूव ह ॥ २४ ॥
पपात भूतले देवि यक्ष्मणा पीडितः शशी ॥
क्षेत्रं प्रभासमासाद्य तन्महोदधिसन्निधौ ॥ २५ ॥
दृष्ट्वा पृथ्वीश्वरं लिङ्गं सप्रभावं महाप्रभम् ॥
तत्पूजानिरतो भूत्वा वर्षाणां तु सहस्रकम् ॥ २६ ॥
अतपत्स तपो रौद्रं शीर्णपर्णाम्बुभक्षकः ॥
यतः समभवद्दीप्त्या सर्वाह्लादकरः शशी ॥ २७ ॥
तल्लिङ्गस्यैव माहात्म्यात्ततश्चन्द्रेश्वरोऽभवत् ॥
तस्य लिङ्गस्य माहात्म्याच्चन्द्रमा गतकल्मषः ॥ २८ ॥
अवाप सिद्धिमत्युग्रां स्पर्शलिङ्गप्रकाशिनीम् ॥
सोमनाथेति यां प्राहुः प्रसिद्धां लिङ्गरूपिणीम् ॥ २९ ॥
इति सङ्क्षेपतः प्रोक्तं माहात्म्यं चन्द्रदैवतम् ॥
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति ॥ 7.1.98.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां पृथ्वीश्वर( चन्द्रेश्वर)माहात्म्यवर्णनन्नामाष्टनवतितमोध्यायः ॥ ९८ ॥