॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि नीलरुद्रं द्वितीयकम्॥
भूतेशादुत्तरे भागे धनुषां षोडशे स्थितम् ॥ १ ॥
महालिङ्गं महादेवि गणगन्धर्वपूजितम्॥
संस्नाप्य तं विधानेन ईशमन्त्रेण पूजयेत्॥ २ ॥
कुमुदोत्पलसम्भारैः सम्यक्सम्भावितात्मवान् ॥
कृत्वा प्रदक्षिणां तस्य नमस्कारेण पूजयेत् ॥ ३ ॥
एवं कृत्वा नरो देवि राजसूयफलं लभेत् ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः ॥ ४ ॥
नीलाञ्जननिभो दैत्यो निहतश्चान्तकः पुरा ॥
तस्य रोदयिता स्त्रीणां नीलरुद्रस्ततः स्मृतः॥५॥
तस्य सङ्क्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥
सम्यक्छ्रद्धान्वितैः प्राप्यं श्राव्यं तद्दर्शनोत्सुकैः ॥ ६ ॥
इतिश्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये नील रुद्रमाहात्म्यवर्णनन्नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥