०८६ पाण्डवेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यास्तु दक्षिणे भागे स्थितं लिङ्गं महाप्रभम् ॥
पाण्डवेश्वरनामाढ्यं पञ्चभिः स्थापितं क्रमात् ॥ १ ॥
गुप्तचर्यां यदा याताः पाण्डवा वनवासिनः ॥
तीर्थयात्राप्रसङ्गेन प्रभासं क्षेत्रमागताः ॥ २ ॥
तस्मिन्काले महादेवि सं प्राप्ते सोमपर्वणि ॥
स्थापयामासुस्ते सर्वे लिङ्गं सन्निहिता तटे ॥ ३ ॥
मार्कण्डप्रमुखान्कृत्वा ऋत्विजो ब्राह्मणोत्तमान् ॥
वेदोक्तैः कारयामासुरभिषेकं वृषान्ददुः ॥ ४ ॥
ततः प्रसन्ना ऋषयो मार्कण्डप्रमुखाः प्रिये ॥
प्रतिष्ठितस्य लिङ्गस्य पाण्डवैर्वरवर्णिनि ॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
ये चैतत्पूजयिष्यन्ति लिङ्गं पाण्डवपूजितम् ॥
ते वै पूज्या भविष्यन्ति देवदानवरक्षसाम् ॥ ६ ॥
अश्वमेधफलं तेषां सम्यक्छ्रद्धार्चनेन वै ॥
भविष्यति न सन्देहो ह्यस्मद्वाक्यप्रभावतः ॥ ७ ॥
स्नात्वा सन्निहिताकुण्डे योऽर्चयेत्पाण्डवेश्वरम् ॥
माघे मासि समग्रे तु स साक्षात्पुरुषोत्तमः ॥ ८ ॥
दर्शनेनापि तस्यापि पापं याति सहस्रधा ॥
विष्णुरूपो हि स प्रोक्तो नात्र कार्या विचारणा ॥ ९॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सन्निहित्यामाहात्म्ये पाण्डवेश्वरमाहात्म्यवर्णनन्नाम षडशीतितमोऽध्यायः ॥ ८६ ॥