ईश्वर उवाच॥
ततो गच्छेन्महादेवि उत्तङ्केश्वरमुत्तमम्॥
तस्यैव दक्षिणे भागे नातिदूरे व्यवस्थितम् ॥
स्थापितं च स्वयं भक्त्या उत्तङ्केन महात्मना ॥ १ ॥
तद्दृष्ट्वा तु महादेवि स्पृष्ट्वा च सुसमाहितः ॥
सम्पूज्य विधिवद्भक्त्या मुच्यते सर्वकिल्बिषात् ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उत्तङ्केश्वरमाहात्म्य वर्णनन्नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥ ॥ ॥