०७६ लकुलीशलिङ्गद्वयमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यैव देवदेवस्य समीपस्थं विराजते ॥
लिङ्गद्वयं महापुण्यं लकुलीशप्रतिष्ठितम् ॥ १ ॥
लकुले श्वरनामास्ति तस्य लिङ्गद्वयस्य वै ॥
तद्दृष्ट्वा देवदेवस्य लिङ्गद्वयमनुत्तमम् ॥ २ ॥
मुच्यते सकलात्पापादाजन्ममरणान्तिकात् ॥
तत्र शुक्लचतुर्द्दश्यां मासि भाद्रपदे प्रिये ॥ ३ ॥
उपवासपरो भूत्वा यः करोति प्रजागरम् ॥
मूर्त्तिमन्तं तु सम्पूज्य लकुलीशं महाप्रभम् ॥ ४ ॥
ततः सम्पूज्य विधिना तत्र लिङ्गद्वयं पृथक् ॥
सम्यक्पूजाविधानेन स्तुतिमन्त्रैरनुक्रमात् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कलकलेश्वरसमीपवर्ति लकुलीशलिङ्गद्वयमाहात्म्यवर्णनन्नाम षट्सप्ततितमोऽध्यायः॥७६॥