०७२ जलवासगणपतिमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येद्विघ्नेशं जलवाससम् ॥
सर्वविघ्नविनाशाय सर्वकार्यप्रसिद्धये ॥ १ ॥
वरुणेन महादेवि तपोनिर्विघ्नहेतवे ॥
पूजितो जलजैर्भक्त्या जलवासास्ततः स्मृतः ॥ २ ॥
चतुर्थ्यां तर्पयेद्भक्त्या गन्धैः पुष्पैः स मोदकैः ॥
यथाभक्त्यनुसारेण तस्य तुष्येद्गणाधिपः ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलवासगणपतिमाहात्म्यवर्णनन्नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥