॥ देव्युवाच ॥ ॥
गौरीश्वरेति विख्यातं यत्त्वया लिङ्गमुत्तमम् ॥
कुत्र तिष्ठति तल्लिङ्गं पूजितं यत्फलं लभेत् ॥ १ ॥
॥ ईश्वर उवाच ॥ ॥
शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनारानम् ॥
गौरीश्वरस्य देवस्य सर्वकामप्रदस्य वै ॥ २ ॥
इदं तपोवनं देवि ख्यातं गौर्या महाप्रभम् ॥
धनुषां पचपञ्चाशत्समन्तात्परिमण्डलम् ॥३॥
तत्र मध्ये स्थिता देवी एकपादा तपोन्विता ॥
तस्या उत्तरतो देवि किञ्चिदीशानसंस्थितम्॥ ॥४ ॥
धनुषां चतुरन्ते च लिङ्गं पापभयापहम् ॥
यस्तत्पूजयते भक्त्या लिङ्गं भक्तियुतो नरः ॥
कृष्णाष्टम्यां विशेषेण स मुक्तः पातकैर्भवेत् ॥ ५ ॥
गोदानं चात्र शंसन्ति सुवर्णं द्विजपुङ्गवे ॥
अन्नदानं विशेषेण सर्वपापप्रशान्तये ॥ ६ ॥
गोघ्नो वा ब्रह्महा वाऽपि तथा दुष्कृतकर्मकृत् ॥
सर्व पापैः प्रमुच्येत तस्य लिङ्गस्य दर्शनात् ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये गौरीश्वरमाहात्म्यवर्णनन्नामैकोनसप्ततितमोऽध्यायः ॥ ६९ ॥