॥ ईश्वर उवाच ॥ ॥
ततो गछेन्महालिङ्गं कामेश्वरमिति श्रुतम् ॥
कामेनाराधितं पूर्वं दैत्यसूदनपश्चिमे ॥ १ ॥
धनुषां सप्तके तत्र स्थितं देवि महाप्रभम् ॥
निर्दग्धस्तु यदा काम स्तृतीयेनाग्निना मम ॥ २ ॥
तदा वर्षसहस्रं तु समाराध्य महेश्वरम् ॥
प्रपेदे कामनासर्गं यत्रानङ्गः पुरा किल ॥ ३ ॥
तेन कामेश्वरन्नाम ख्यातं लिङ्गं धरातले ॥
सर्वपापहरं देवि सर्वकामफलप्रदम् ॥ ४ ॥
त्रयोदश्यां विधानेन शुक्लायां मासि माधवे ॥
सम्पूज्य तं विधानेन स स्त्रीणां कामवद्भवेत्॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्या संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥