०६६ प्रभासक्षेत्रमाहात्म्येऽर्घ्येश्वरमाहात्म्यवर्णनम्

॥ ॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महालिङ्गमर्घ्येश्वरमिति श्रुतम् ॥
उत्तरे तु विशालाक्ष्या नातिदूरे व्यवस्थितम् ॥ १ ॥
लिङ्गं महाप्रभावं हि सुरगन्धर्वपूजितम् ॥
यदा देवी समायाता वडवानलधारिणी ॥ २ ॥
प्रभासक्षेत्रमासाद्य दृष्ट्वा तत्र महोदधिम् ॥
अर्घ्यं दत्तवती तत्र विधिना तन्महोदधेः ॥ ३ ॥
प्रतिष्ठाप्य महल्लिङ्गं सम्पूज्य विधिना ततः ॥
प्रविवेशाथ देवेशि स्नानार्थं च महोदधौ ॥ ४ ॥
यस्मादर्घ्यं पुरा दत्त्वा पश्चा दीशः प्रतिष्ठितः ॥
तेनार्घ्येशेति विख्यातं लिङ्गं पापप्रणाशनम् ॥ ५ ॥
पञ्चामृतेन संस्नाप्य विधिना यस्तमर्चयेत् ॥
सप्तजन्मानि देवेशि स विद्यामधिगच्छति ॥
सम्यक्छास्त्रप्रवक्ता च सर्वसन्देहवित्तमः ॥ ६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्घ्येश्वरमाहात्म्यवर्णनन्नाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥