॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं वै वाडवेश्वरम् ॥
लक्ष्मीशादुत्तरे भागे विशालाक्ष्याश्च दक्षिणे ॥ १ ॥
स्थितं महाप्रभावं हि वाडवेन प्रतिष्ठितम्॥
कृतस्मरो यदा दग्धः पर्वतो वाडवाग्निना ॥ २ ॥
समीकृत्याखिलं स्थानं तेन लिङ्गं प्रतिष्ठितम् ॥
पूजयेत्तं विधानेन दश संस्नाप्य शङ्करम् ॥ ३ ॥
दधि दद्याच्च वै तत्र ब्राह्मणे वेदपारगे।
सोऽग्निलोकमवाप्नोति सम्यग्यात्राफलं लभेत् ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वाडवेश्वरमाहात्म्यवर्णनन्नाम पञ्चषष्टितमोऽध्यायः ॥६५ ॥