०६४ लक्ष्मीश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
तस्यैव पूर्वदिग्भागे धनुषां पञ्चके स्थितम् ॥
लक्ष्मीश्वरेति विख्यातं दारिद्र्यौघविनाशनम् ॥ १ ॥
यत्र देव्या समानीता लक्ष्मीर्देत्यान्निहत्य च ॥
तेन लक्ष्मीश्वरं नाम स्वयं देव्या प्रतिष्ठितम् ॥ २ ॥
यस्तं पूजयते भक्त्या श्रीपञ्चम्यां विधानतः ॥
न विमुक्तो भवेल्लक्ष्म्या यावन्मन्वतरं प्रिये ॥३॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लक्ष्मीश्वरमाहात्म्यवर्णनन्नाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥॥