॥ ईश्वर उवाच ॥ ॥
अथ ते पञ्चमं वच्मि सिद्धलिगं महाप्रभम् ॥
ब्रह्मणो नैर्ऋते भागे धनुषां षोडशे स्थितम् ॥ १ ॥
राहुलिङ्गस्य चाभ्याशे लिङ्गं धनदनिर्मितम् ॥
धनदत्वं च सम्प्राप्तो यत्र तप्त्वा महत्तपः ॥ २ ॥
संस्थाप्य विधिवत्पूज्य लिङ्गं वर्षसहस्रकम् ॥
अलकाधिपतिर्जातस्तत्र शम्भोः प्रसादतः ॥ ३ ॥
जातिं स्मृत्वा पूर्विकां तु ज्ञात्वा दीपदशाफलम् ॥
शिवरात्रे प्रभावं तु प्रभासं पुनरागतः ॥ ४ ॥
प्रभावातिशयं ज्ञात्वा स्थापयामास शङ्करम् ॥
तत्र प्रत्यक्षतां नीतस्तपसा येन शङ्करः ॥ ५ ॥
महाभक्त्या महादेवि तस्मिल्ँलिङ्गेऽवतारितः ॥
तं दृष्ट्वा मानवो भक्त्या पूजयित्वा यथाविधि ॥ ६ ॥
पञ्चोपचारैः सद्भक्त्या गन्धधूपानुलेपनैः ॥
तस्यान्वये दरिद्रश्च कदापि न भविष्यति ॥ ७ ॥
ये चैतत्पूजयिष्यन्ति लिङ्गं भक्तियुता नराः ॥
अजेयास्ते भविष्यन्ति शत्रूणां दर्पनाशनाः ॥ ८ ॥
इति ते कथितं सर्वं धनदेशमहोदयम् ॥
श्रुत्वानुमोद्य यत्नेन दरिद्रो नैव जायते ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये धनदेश्वरमाहात्म्यवर्णनन्नाम षट्पञ्चाशोऽध्यायः ॥ ५६ ॥