॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि गन्धर्वेश्वरमुत्तमम् ॥
दण्डपाणेस्तु भवनादुत्तरे निकटे स्थितम्॥१॥
यत्र गन्धर्वराजो वै घनवाहेति विश्रुतः॥
तस्य गन्धर्वसेनेति ख्याता पुत्री महाप्रभा॥२॥
शिखण्डिना गणेनैव सा शप्ता रूपगर्विता॥
ततो गोशृङ्गऋषिणा दत्तस्तस्या अनुग्रहः॥३॥
सोमवारव्रतेनैव सोमेशाराधनं प्रति॥
ततः क्षेत्रं समागत्य तपः कृत्वा सुदुश्चरम्॥४॥
लिङ्गं प्रतिष्ठयामास तत्र गन्धर्वराट् स्वयम्॥
तथैव पुत्र्या तस्यैव तत्र लिङ्गं प्रतिष्ठितम्॥५॥
अथ तत्रैव देवेशि दण्डपाणेः समीपतः ॥
घनवाहेश्वरं नाम यो लिङ्गं यत्नतोऽर्चयेत् ॥ ६ ॥
गन्धर्वलोकमाप्नोति दृष्ट्वा स प्रयतः शुचिः ॥
इति ते कथितं देवि गान्धर्वं लिङ्गमुत्तमम् ॥ ७ ॥
तृतीयं सर्वपापानां नाशनं पुण्यवर्द्धनम् ॥
अग्नितीर्थे नरः स्नात्वा पूज्य गन्धर्वपूजितम् ॥ ८ ॥
अयने चोत्तरे प्राप्ते निर्वाणमधिगच्छति ॥
श्रुत्वा ऽभिनन्द्य माहात्म्यं मुच्यते महतो भयात् ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनन्नाम चतुःपञ्चाशोऽध्यायः॥५४॥