॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम्॥
तस्यैव पूर्वदिग्भागे नातिदूरे व्यव स्थितम् ॥ १ ॥
लिङ्गं महाप्रभावं तु दर्शनात्पापनाशनम् ॥
कपिलोनाम राजर्षिर्यत्र तप्त्वा महातपः ॥ २ ॥
सम्प्राप्तः परमां सिद्धिं प्रतिष्ठाप्य महेश्वरम् ॥
देवसान्निध्यमीशानं तस्मिल्ँलिङ्गे सदा हरिः ॥ ३ ॥
शुक्लपक्षे चतुर्दश्यां सर्वलोकहितार्थतः ॥
सप्तकृत्वो महादेवं सोमेशं कपिलेश्वरम्॥
यः पश्येत्प्रयतो भूत्वा स गोदानफलं लभेत् ॥ ४ ॥
तिलधेनुं च यो दद्यात्तस्मिंस्तीर्थे समाहितः ॥
तिलसङ्ख्यायुगान्येव स स्वर्गे वसति प्रिये ॥ ५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपिलेश्वरमाहात्म्यवर्णनं नाम त्रिपञ्चाशोऽध्यायः ॥ ५३ ॥