॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि केतुलिङ्गं महाप्रभम् ॥
राह्वीशानादुत्तरे च मङ्गलायाश्च दक्षिणे ॥ १ ॥
धनुषोन्तरमानेन नातिदूरे व्यवस्थितम् ॥
लिङ्गं महाप्रभावं हि सर्वपातकनाशनम् ॥ २ ॥
केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः ॥ ३ ॥
पलालधूमसङ्काशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये ॥ ४ ॥
तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम् ॥ ५ ॥
तत्रस्थं पूजयेद्भक्त्या केतुलिङ्गं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः ॥ ६ ॥
ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गन्धैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः ॥ ७ ॥
तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम् ॥ ८ ॥
इति सङ्क्षेपतः प्रोक्तं केतुलिङ्गं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम् ॥ ९ ॥
एतानि नव लिङ्गानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः ॥ 7.1.51.१० ॥
न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षन्ति महाग्रहाः ॥ ११ ॥
इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम् ॥ १२ ॥
नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पञ्चलिङ्गानां श्रुत्वा पापैः प्रमुच्यते ॥ १३ ॥
कपर्द्दिनं समारभ्य चण्डनाथान्तकानि च ॥
पञ्चैव मुद्रालिङ्गानि नापुण्यो वेद मानवः ॥ १४ ॥
सूर्येश्वरं समारभ्य केतुलिङ्गान्तकानि वै ॥
नवग्रहाणां लिङ्गानि नान्यो जानाति कश्चन ॥ १५ ॥
चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसङ्गतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते ॥ १६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपञ्चाशोऽध्यायः ॥ ५१ ॥