॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं राहुप्रतिष्ठितम् ॥
शनैश्चरेश्वराद्देवि वायव्ये सम्प्रतिष्ठितम् ॥ १ ॥
अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥
मङ्गलायाः समीपस्थं नातिदूरे व्यवस्थितम् ॥ २ ॥
लिङ्गं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥
तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत् ॥ ३ ॥
स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥
समाराध्य महादेवं दिव्येन तपसा प्रभुम् ॥ ४ ॥
लिङ्गेऽवतारयामास जगद्दीपं महेश्वरम् ॥
यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥
तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम् ॥ ५ ॥
नान्धो न बधिरो मूको न रोगी न च निर्द्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥ ६ ॥
सुखसौभाग्यसम्पन्नस्तदा भवति रूपवान् ॥
सर्वकामसमृद्धात्मा मोदते दिवि देववत् ॥ ७ ॥
इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥
श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत् ॥ ८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनन्नाम पञ्चाशोऽध्यायः ॥ ५० ॥