०४८ शुक्रेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि लिङ्गं शुक्रप्रतिष्ठितम्॥
सर्वपापहरं देवि विभूतीश्वरपश्चिमे॥१॥
नातिदूरे स्थितं तत्र स्वयं शुक्रेण निर्मितम्॥
यत्र सञ्जीवनीं प्राप्तो विद्यां रुद्रप्रभावतः ॥२॥
सन्तप्य तु महाघोरं तपोवर्षसहस्रकम् ॥
सम्प्रसाद्य विरूपाक्षं योऽवाप ग्रहतां सुधीः ॥३॥
ग्रस्तेन शम्भुना येन देवकार्यार्थसिद्धये ॥
तत्रोदरगतेनैव तपस्तप्तं सुदुष्करम्॥ ४॥
वर्षाणामयुतं साग्रं तुष्टिं नीतो महेश्वरः ॥
निष्कासितस्ततः शीघ्रं शुक्र मार्गेण शम्भुना ॥५॥
ततः शुक्रेति नामाभूद्भार्गवस्य महात्मनः ॥
तदाराधयते लिङ्गं यः कृत्वा निश्चलं मनः ॥६॥
मृत्युञ्जयं जपेल्लक्षं स समीहितमाप्नुयात्॥७॥
तं दृष्ट्वा त्वथवा स्पृष्ट्वा जन्मादिमरणान्तकात्॥
मुच्यते पातकान्मृत्योः प्रसादात्तस्य भामिनि॥८॥
मृतसञ्जीवनार्थं यदैश्वर्यमणिमादिकम्॥
प्राप्नुयान्नात्र सन्देहो यस्य भक्तिः सुनिश्चला ॥९॥
पञ्चामृतेन संस्नाप्य देवं शुकप्रतिष्ठितम्॥
सुगन्धपुष्पैः सम्पूज्य शौक्रीं पीडां स नाप्नुयात् ॥7.1.48.१०॥
इति सर्वं समासेन माहात्म्यं शुक्रदैवतम् ॥
कथितं तव सुश्रोणि श्रुतं पापभयापहम् ॥११॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शुक्रेश्वरमाहात्म्यवर्णनन्नामाष्टचत्वारिंशोध्यायः ॥ ४८ ॥