०४६ बुधेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तस्यैवोत्तरतः स्थितम् ॥
लिङ्गं महाप्रभावं तु बुधेश्वरमिति श्रुतम् ॥ १ ॥
धनुषां द्वितये चैव नातिदूरे व्यवस्थितम् ॥
सर्वपाप हरं लिङ्गं दर्शनादेव भामिनि ॥ २ ॥
बुधेन चैव देवेशि तत्र तप्तं महातपः ॥
स्थापितं विमलं लिङ्गं समाराध्य सदाशिवम् ॥ ३ ॥
वर्षायुतानि चत्वारि सम्पूज्य तु विधानतः ॥
अनन्यचेताः शान्तात्मा प्रत्यक्षीकृतवान्भवम्॥ ४ ॥
ततस्तुष्टमना देवो ग्रहत्वं तस्य तद्ददौ ॥
तं सम्पूज्य विधानेन सोमपुत्रप्रतिष्ठितम्॥
सौम्याष्टम्यां विशेषेण राजसूयफलं लभेत् ॥ ५ ॥
न दौर्भाग्यं कुले तस्य न चैवेष्टवियोजनम् ॥
शत्रुतो न भयं तस्य भवेत्तस्यप्रसादतः ॥ ६ ॥
इति सङ्क्षेपतः प्रोक्तं माहात्म्यं बुधदैवतम्॥
श्रुत्वाऽभिनन्द्य प्रयतः प्राप्नोति परमं पदम् ॥ ७ ॥
इति श्रीस्कान्दे महापु राण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये बुधेश्वरमाहात्म्यवर्णनन्नामषट्चत्वारिंशोऽध्यायः ॥ ४६ ॥