०४४ सोमेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
आदित्येशं समभ्यर्च्य पुनः सोमेश्वरं व्रजेत् ॥
तं सम्पूज्य विधानेन पञ्चाङ्गेन विशेषतः ॥ १ ॥
दृष्ट्वा सोमेश्वरं चैव साष्टाङ्गं प्रणिपत्य च ॥
प्रदक्षिणादिकं कुर्यात्सम्पश्येच्च पुनःपुनः ॥ २ ॥
सूर्याचन्द्रमसोर्लिङ्गं त्रिःकृत्वा प्रयतः शुचिः ॥
अग्नीषोमात्मकं कर्म तेन सर्वं कृतं भवेत् ॥ ३ ॥
उमादेवीं ततो गच्छेत्सोमेश्वरसमीपतः ॥
द्वितीयां तु ततो गच्छेद्दैत्यसूदनसन्निधौ ॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रमासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनन्नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥