॥ ईश्वर उवाच ॥ ॥
ततो गच्छेद्वरारोहे लिङ्गं सूर्यप्रतिष्ठितम् ॥
सोमेशात्पश्चिमे भागे धनुषां सप्तके स्थितम्॥
आदित्येश्वरनामानं सर्वपातकनाशनम् ॥ १ ॥
त्रेतायुगे महादेवि समुद्रेण महात्मना ॥
रत्नैः सम्पूजितं लिङ्गं वर्षाणामयुतं प्रिये ॥ २ ॥
तेन रत्नेश्वरन्नाम साम्प्रतं प्रथितं क्षितौ ॥
पञ्चामृतेन संस्नाप्य पञ्चरत्नैः प्रपूजयेत् ॥३॥
ततो राजोपचारेण पूजयेद्विधिवन्नरः ॥
एवं कृते महादेवि मेरुदानफलं लभेत् ॥४॥
सर्वेषां चैव यज्ञानां दानानां नात्र संशयः ॥५॥
तीर्थानां चापि सर्वेषां यच्चान्यत्सुकृतं भुवि ॥
उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥ ६ ॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
क्षालयेच्चैव तत्सर्वं दृष्ट्वा रत्नेश्वरं नरः ॥ ७ ॥
धेनुदानं प्रशंसन्ति तस्मिन्स्थाने महर्षयः ॥
धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥ ८ ॥
देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम् ॥
सम्पूज्य विधिवल्लिङ्गं न स भूयः प्रजायते ॥९॥
एवं सङ्क्षेपतः प्रोक्तमादित्येशमहोदयम् ॥
श्रुत्वाऽवधार्य यत्नेन मुच्यते कर्मबन्धनैः ॥ 7.1.43.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदित्येश्वरमाहात्म्यवर्णनन्नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥