०२८ विधानवर्णनम्

ग्रन्थचित्राण्य् अत्र । अनुवादश् चात्र

प्रार्थना

॥ देव्युवाच ॥ ॥
इत्याश् चर्यमिदं देव त्वत्तः सर्वं मया श्रुतम् ॥
महिमानं महेशस्य विस्तरेण समुद्भवम् ॥
साम्प्रतं सोमनाथस्य यथावद्वक्तुमर्हसि ॥ १ ॥
विधिना केन दृश्योसौ यात्रा कार्या कथं नृभिः ॥
कस्मिन्काले महादेव नियमाश् चैव कीदृशाः ॥ २ ॥ ॥

यात्राकालः

॥ ईश्वर उवाच ॥ ॥
हेमन्ते शिशिरे वापि वसन्ते वाथ भामिनि ॥
यदा च जायते चित्तं वित्तं वा पर्व वा भवेत् ॥ ३ ॥
तदैव यात्रा कर्त्तव्या भावस्तत्रैव कारणम् ॥
कृत्वा तु नियमं कञ्चित्स्वगृहे वरवर्णिनि ॥ ४ ॥

गृहे नियमाः

प्रणम्य मनसा रुद्रं कृत्वा श्राद्धं यथाविधि ॥
स्थानं प्रदक्षिणं कृत्वा वाग्यतः सुसमाहितः ॥ ५ ॥
नियतो नियताहारो गच्छेच्चैव ततः पथि ॥
कामक्रोधौ परित्यज्य लोभमोहौ तथैव च ॥ ६ ॥
ईर्ष्यामत्सरलौल्यं च यात्रा कार्या ततो नृभिः ॥

तीर्थयात्रा-प्रशंसा

तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते ॥ ७ ॥
अग्निष्टोमादियज्ञैश् च इष्ट्वा विपुलदक्षिणैः ॥
तत्तत्फलमवाप्नोति तीर्थानुगमनेन यत् ॥ ८ ॥
कलेर्युगं महाघोरं प्राप्य पापसमन्वितम् ॥
नान्येनाऽस्मिन्नुपायेन धर्म्मः स्वर्गश् च लभ्यते ॥
विना यात्रां महादेवि सोमेशस्य न संशयः ॥ ९ ॥
ये कुर्वन्ति नरा यात्रां शुचिश्रद्धासमन्विताः ॥
कलौ युगे कृतार्थास्ते ये त्वन्ये ते निरर्थकाः ॥ 7.1.28.१० ॥
यथामहोदधेस्तुल्यो न चान्योऽस्ति जलाशयः ॥
तथा प्राभासिकात्क्षेत्रात्समं तीर्थं न विद्यते ॥ ११ ॥
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ॥
अदत्त्वा काञ्चनं गाश् च दरिद्रोनाम जायते ॥ १२ ॥
यन्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ॥
मनसा तानि गम्यानि सर्वतीर्थगतीप्सुना ॥ १३ ॥

यात्रा-नियमाः केचित्

यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् ॥
विद्या तपश् च कीर्तिश् च स तीर्थ-फलम् अश्नुते ॥ १४ ॥
नियतो नियताहारः स्नान। जाप्यपरायणः ॥
व्रतोपवास-निरतः स तीर्थ-फलम् अश्नुते ॥ १५ ॥
अक्रोधनश् च देवेशि सत्यशीलो दृढव्रतः ॥
आत्मोपमश् च भूतेषु स तीर्थ-फलम् अश्नुते ॥ १६ ॥

कुरुक्षेत्रादि-तीर्थानि रथगम्यानि यानि तु ॥
तान्य् एव ब्राह्मणो यायाद् - यान-दोषो न तेषु वै ॥ १७ ॥
ये साधवो धनोपेतास् तीर्थानां स्मरणे रताः ॥
तीर्थे दानाच् च योगाच् च तेषाम् अभ्यधिकं फलम् ॥ १८ ॥
ये दरिद्रा धनैर् हीनास् तीर्थानुगमने रताः॥
तेषां यज्ञफलावाप्तिर् विनापि धन-सञ्चयैः ॥१९॥

सर्वेषाम् एव वर्णानां सर्वाश्रम-निवासिनाम् ॥
तीर्थं तु फलदं ज्ञेयं नात्र कार्या विचारणा ॥ 7.1.28.२० ॥

कार्यान्तरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥
न च यात्राफलं तस्य स्नानमात्रं फलं भवेत् ॥ २१ ॥+++(5)+++

तीर्थानुगमनं पद्भ्यां तपःपरम् इहोच्यते ॥
तद् एव कृत्वा यानेन स्नान-मात्र-फलं लभेत् ॥ २२ ॥

यस्यान्यः कुरुते शक्त्या तीर्थयात्रां तथेश्वरि ॥
स्वकीय-द्रव्य-यानाभ्यां फलं तस्य चतुर्गुणम् ॥ २३ ॥

तीर्थानुगमनं कृत्वा भिक्षाहारा जितेन्द्रियाः॥
प्राप्नुवन्ति महादेवि तीर्थे दशगुणं फलम् ॥ २४ ॥

छत्रोपानद्-विहीनस् तु भिक्षाशी विजितेन्द्रियः ॥
महापातकजैर् घोरैर् विप्रः पापैः प्रमुच्यते ॥ २५ ॥
न भैक्षं परपाकं तु न च भैक्ष्यं प्रतिग्रहम् ॥
सोमपानसमं भैक्ष्यं तस्माद् भैक्षं समाचरेत् ॥ २६ ॥

तीर्थभेदाः

लोकेऽस्मिन् द्विविधं तीर्थं - स्वच्छन्दैर् निर्म्मितं तथा ॥
स्वयम्-भूतं प्रभासाद्यं निर्मितं दैवतैः कृतम् ॥ २७ ॥

दानप्रतिग्रहौ

स्वयम्-भूते महातीर्थे स्वभावे च महत्तरे ॥
तस्मिंस् तीर्थे प्रतिगृह्य कृताः सर्वे प्रतिग्रहाः +++(चित्त-भारकारिणः)+++ ॥ २८ ॥
प्रतिग्रह-निवृत्तस्य+++(→अप्रतिग्राहिणो)+++ यात्रा-दश-गुणं फलम् ॥

तेन दत्तानि दानानि यज्ञैर् देवाः सुतर्पिताः ॥ २९ ॥
येन क्षेत्रं समासाद्य निवृत्तिः परमा कृता ॥

वस्तु-लौल्याद् +हि यः क्षेत्रे प्रतिग्रह-रुचिस् तथा ॥ 7.1.28.३० ॥
नैव तस्य परोलोको नायं लोको दुरात्मनः ॥
अथ चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिदुर्बलः ॥
दशांशम् अर्जिताद् दद्याद् एवं तत्र न हीयते ॥ ३१ ॥

विप्र-वेषं समास्थाय शूद्रो भूत्वा प्रतिग्रहम् ॥
तृण-काष्ठ-समं वापि प्रतिगृह्य पतत्य् अधः ॥ ३२ ॥
कुम्भीपाकादिकेष्व् एवं महानरक-कोटिषु ॥
यावद् इन्द्र-सहस्राणि चतुर्द्दश वरानने ॥३३॥

तस्मान् नैव प्रतिग्राह्यं किम् अन्यैर् ब्राह्मणैर् अपि ॥
द्विप्रकारस्य तीर्थस्य कृतस्याप्य् अकृतस्य च ॥ ३४ ॥

यानरीतिः

स्वकीय-भाव-संयुक्तः सम्पूर्णं फलम् अश्नुते ॥
लभते षोडशांशं स यः परान्नेन गच्छति ॥ ३५ ॥

अशक्तस्य तथान्धस्य पङ्गोर् यायावरस्य+++(→नित्यं ग्रामान्तरं यातीति)+++ च ॥
विहितं कारणाद् यानम् अच्छिद्रे ब्राह्मणे कुतः ॥ ३६ ॥
स्नान-खादन-पानैश् च वोढृभ्यस् तीर्थसेवकः ॥
ददत् सकलम् आप्नोति फलं तीर्थ-समुद्भवम् ॥ ३७ ॥

दानम्

न षोडशांशं यत्नेन लब्धार्थं यदि यच्छति ॥
पञ्चमांशम् अथो+++(→षोडशांशस्य)+++ वापि दद्यात् तत्र द्विजातिषु ॥ ३८ ॥

परार्थ-यात्रा

देवतानां गुरूणां च मातापित्रोश् च कामतः ॥
+++(यात्रादि-)+++पुण्य-दः समवाप्नोति तद् एवाष्टगुणं फलम् ॥ ३९ ॥+++(5)+++
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
पुण्यं देयं तु सर्वत्र नापुण्यं दीयते क्वचित् ॥ 7.1.28.४० ॥
पितरं मातरं तीर्थे भ्रातरं सुहृदं गुरुम् ॥
यम् उद्दिश्य निमज्जेत द्वादशांशं लभेत सः ॥ ४१ ॥+++(5)+++
कुशैस् तु प्रतिमां कृत्वा तीर्थवारिषु मज्जयेत् ॥
यम् उद्दिश्य महादेवि अष्टभागं लभेत सः ॥ ४२ ॥+++(5)+++

अज्ञानिना प्रतिग्रहे निषेधः

महादानानि ये विप्रा गृह्णन्ति ज्ञान-दुर्बलाः ॥
वृक्षास् ते द्विज-रूपेण जायन्ते ब्रह्मराक्षसाः ॥ ४३ ॥+++(5)+++
न वेद-बलम् आश्रित्य प्रतिग्रह-रुचिर् भवेत् ॥
अज्ञानाद् वा प्रमादाद् वा -+++(यतो)+++ दहते कर्म नेतरत् ॥ ४४ ॥

चितिकाष्ठं तु वै स्पृष्ट्वा यज्ञयूपं तथैव च ॥
वेदविक्रयिणं स्पृष्ट्वा स्नानम् एव विधीयते ॥ ४५ ॥

दानादेशनिषेधः

आदेशं पठते यस् तु आदेशं तु ददाति यः ॥
द्वाव् एतौ पापकर्माणौ पाताल-तल-वासिनौ ॥ ४६ ॥
आदेशं पठते यस् तु सञ्जिघृक्षुः प्रतिग्रहम् ॥
तीर्थे चैव विशेषेण ब्रह्मघ्नः सैव नेतरः ॥

वेदविक्रयनिषेधः

स्थितो वै नृपतेर् द्वारि न कुर्याद् वेदविक्रयम् ॥ ४७ ॥
हत्वा गावो वरं मांसं भक्षयीत द्विजाधमः ॥
वरं जीवन् समं मत्स्यैर् न कुर्याद् वेदविक्रयम् ॥

ब्रह्म-हत्यासमं पापं न भूतं न भविष्यति ॥ ४८ ॥
वरं कुर्याच् च तद् देवि न कुर्याद् वेदविकयम् ॥

तीर्थे त्यागः

तीर्थे चैव विशेषेण महाक्षेत्रे तथैव च ॥ ४९ ॥
दीयमानं तु वै दानं यस् त्यजेत् तीर्थसेवकः ॥
तीर्थं करोति तीर्थं च स पुनाति च पूर्वजान् ॥ 7.1.28.५० ॥

तीर्थे पापस्य गौरवम्

यद् अन्यत्र कृतं पापं तीर्थे तद् याति लाघवम्॥
न तीर्थकृतम् अन्यत्र - क्वचिद् एव व्यपोहति ॥ ५१ ॥

+++(अस्कन्न-)+++तैल-पात्रम् इवात्मानं यो रक्षेत् तीर्थसेवकः ॥
स तीर्थ-फलम् अस्कन्नं विप्रः प्राप्नोति संयतः ॥ ॥। ५२ ॥+++(5)+++

अन्नेऽप्य् अप्रतिग्रहः

यस्य यस्यात्ति पक्वान्नम् अल्पं वा यदि वा बहु ॥
तीर्थगस् तस्य तस्यार्धं स्नातस्य विनियच्छति ॥ ५३ ॥

यो न क्लिष्टोपि भिक्षेत ब्राह्मणस् तीर्थ-सेवकः ॥
सत्य-वादी समाधिस्थः स तीर्थस्योपकारकः ॥ ५४॥

प्राभासिकक्षेत्रविशेषः

कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा ॥
द्वापरे तु कुरुक्षेत्रं प्राभासिकं कलौयुगे ॥ ५५ ॥

तिष्ठेद् युग-सहस्रन् तु पादेनैकेन यः पुमान् +++(तपसि स्थितः)+++ ॥
प्रभासयात्राम् एको वा समं भवति वा न वा ॥ ५६ ॥

यात्राविधानम्

एतत्क्षेत्रं समागत्य मध्यभागे वरानने ॥
यानानि तु परित्यज्य भाव्यं पादचरैर् नरैः॥५७॥

लुठित्वा लोठनीं तत्र लुठिता यत्र देवताः ॥
ततो नृत्यन् हसन् गायन् भूत्वा कार्पटिकाकृतिः+++(=यात्र्याकृतिः)+++ ॥
गच्छेत् सोमेश्वरं देवं दृष्ट्वा चादौ कपर्द्दिनम्॥ ५८ ॥

ईदृशं पुरुषं दृष्ट्वा स्थितं सोमेश्वरोन्मुखम् ॥
नित्यं तुष्यन्ति पितरो गर्जन्ति च पितामहाः ॥ ५९ ॥
अस्माकं वंशजो देवं प्रस्थितस्तारणाय नः ॥

गत्वा सोमेश्वरं देवि कुर्याद् वपनमादितः ॥ 7.1.28.६० ॥
तीर्थोपवासः कर्त्तव्यो यथावद् वै निबोध मे ॥

उपवासः

नास्ति गङ्गासमं तीर्थं नास्ति क्रतुसमा गतिः ॥६१॥
गायत्रीसदृशं जाप्यं होमो व्याहृतिभिः समः ॥
अन्तर्जले तथा नास्ति पापघ्नम् अघमर्षणात् ॥६२॥
अहिंसा-सदृशं पुण्यं, दानात् सञ्चयनं परम् ॥
तपश् चानशनान् नास्ति तथा तीर्थनिषेवणात् ॥६३॥
तीर्थोपवासाद् देवेशि अधिकं नास्ति किञ्चन ॥
पापानां चोपशमनं, सताम् ईप्सित-कारकम् ॥ ६४ ॥

उपवासो विनिर्द्दिष्टो विशेषाद् देवताश्रये ॥
ब्राह्मणस्य त्व् अनशनं तपः परम् इहोच्यते ॥ ६५ ॥
षष्ठकालाशनं +++(→दिनत्रये सकृत्)+++ शूद्रे तपः प्रोक्तं परं बुधैः ॥
वर्णसङ्कर-जातानां दिनम् एकं प्रकीर्तितम् ॥ ६६ ॥

शूद्रेषु नियमाः

षष्ठकालात् परं शूद्रस् तपः कुर्याद् यथा क्वचित् ॥
राष्ट्रहानिस् तदा ज्ञेया राज्ञश् चोपद्रवो महान् ॥ ६७ ॥+++(5)+++
शूद्रस् तु षष्ठकालाशी यथाशक्त्या तपश् चरेत् ॥
न दर्भानुद्धरेच् छूद्रो न पिबेत् +++(गोवर्णेन)+++ कापिलं पयः ॥ ६८ ॥
मध्य-पत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥
नोच्चरेत् प्रणवं मन्त्रं पुरोडाशं न भक्षयेत् ॥ ६९ ॥
न शिखां नोपवीतं च नोच्चरेत् संस्कृतां गिरम् ॥
न पठेद् वेदवचनं त्रैरात्रं +++(उपवासं)+++ न हि सेवयेत् ॥ 7.1.28.७० ॥
नमस्कारेण शूद्रस्य क्रियासिद्धिर् भवेद् ध्रुवम् ॥

निषिद्धाचरणं कुर्वन् पितृभिः सह मज्जति ॥ ७१ ॥

इन्द्रियनिग्रहः

येनैकादश-सङ्ख्यानि +++(←५ ज्ञानेन्द्रियाणि, ६ करणेन्द्रियाणि)+++ यन्त्रितानीन्द्रियाणि वै ॥
स तीर्थफलमाप्नोति नरोऽन्यः क्लेशभाग्भवेत् ॥ ७२ ॥
यच् च तीर्थे पितृश्राद्धं स्नानं तत्र समाचरेत् ॥
हितकारी च भूतेभ्यः सोऽश्नीयात् तीर्थजं फलम् ॥ ७३ ॥

धर्मध्वजी सदा लुब्धः परदाररतो हि यः ॥
करोति तीर्थ-गमनं स नरः पातकी भवेत्॥ ७४ ॥
एवं ज्ञात्वा महादेवि यात्रां कुर्याद् यथाविधि ॥

तीर्थोपवासं कृत्वादौ श्रद्धायुक्तो दृढ-व्रतः ॥ ७५ ॥
भोजनं नैव कुर्वीत यदीच्छेद्+धितमात्मनः ॥
परान्नं नैव भुञ्जीत तद्दिने ब्राह्मणः क्वचित् ॥७६॥

हस्त्यश्व-रथ-यानानि भूमि-गो-काञ्चनादिकम् ॥
सर्वं तत् परिगृह्णीयाद् भोजनं न समाचरेत् ॥ ७७ ॥

आमाच् छतगुणं पुण्यं भुञ्जतो ददतोऽपि वा ॥
तीर्थोपवासं कुर्वीत तस्मात्तत्र वरानने ॥ ७८ ॥+++(5)+++

व्रती च तीर्थयात्री च विधवा च विशेषतः ॥
परान्नभोजने देवि यस्यान्नं तस्य तत् +++(व्रत)+++फलम् ॥ ७९ ॥

विधवायात्रानियमाः

विधवा चैव या नारी तस्या यात्राविधिं ब्रुवे ॥
कुङ्कुमं चन्दनं चैव ताम्बूलं च स्रजस्तथा ॥ 7.1.28.८० ॥
रक्त-वस्त्राणि सर्वाणि शय्या प्रास्तरणानि च ॥
अशिष्टैः सह सम्भाषो द्विवारं भोजनं तथा ॥ ८१ ॥
पुंसां प्रदर्शनं चैव हास्यं तमसि वर्जयेत् ॥
सशब्दोपानहौ चैव नृत्यं गतिं च वर्जयेत् ॥ ८२ ॥
धारणं चैव केशानाम् अञ्जनं च विलेपनम् ॥
असती-जन-संसर्गं पाण्डित्यं च परित्यजेत् ॥ ८३ ॥
नित्यं स्नानं च कुर्वीत श्वेतवस्त्राणि धारयेत् ॥

यतिश् च ब्रह्मचारी च विधवा च विशेषतः ॥ ८४ ॥
ताम्बूलं मधु मांसं च सुरापान-समं विदुः ॥+++(5)+++
एतेषां वर्ज्जनाद् देवि सम्यग् यात्राफलं लभेत् ॥ ९५ ॥

॥ देव्युवाच ॥ ॥
तपांसि कानि कथ्यन्ते क्षेत्रे प्राभासिके नरैः ॥
कानि दानानि दीयन्ते केषु तीर्थेषु वा कथम् ॥ ८६ ॥

॥ ईश्वर उवाच॥ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानम् इष्यते ॥
द्वापरे यजनं धन्यं दानम् एकं कलौ युगे ॥८७॥
तपस् तप्यन्ति मुनयः कृच्छ्र-चान्द्रायणादिकम् ॥
गत्वा प्राभासिकं क्षेत्रं लोकाश् चान्ये कृते युगे ॥८८॥
कलौ दानानि दीयन्ते ब्राह्मणेभ्यो यथाविधि ॥
प्रभासं क्षेत्रम् आसाद्य तपसां प्राप्यते फलम् ॥ ८९ ॥

तुला-पुरुष-ब्रह्माण्ड-पृथिवी-कल्प-पादपाः ॥
हिरण्य कामधेनुश् च गजवाजिरथास्तथा ॥ 7.1.28.९० ॥
रत्नधेनुहिरण्याश्वसप्तसागर एव च ॥
महाभूतघटो विश्वचक्रकल्पलताभिधः ॥ ९१ ॥
प्रभासे नृपतिर्दद्या न्महादानानि षोडश ॥
धान्यरत्नगुडस्वर्णतिलकार्पासशर्कराः ॥ ९२ ॥
सर्पिर्लवणरूप्याख्या दशैते पर्वताः स्मृताः ॥
गुडाज्यदधिमध्वम्बुसलिल क्षीरशर्कराः ॥
रत्नाख्याश् च स्वरूपेण दशैता धेनवो मताः ॥ ९३ ॥
तेषामेकतमं दानं तीर्थेतीर्थे पृथक्पृथक् ॥
प्रदेयान्येकवारं वा सरस्वत्यब्धि सङ्गमे ॥ ९४ ॥
सर्वस्वं चातिविदुषे गृहं वा सपरिच्छदम् ॥
बह्वल्पमपि विप्रेभ्यो दातव्यं प्रियमेलके ॥९५॥
यत्र तीर्थे लभेल्लिङ्गं तीर्थं च विमलोदकम्॥
तत्राग्निकार्यं कृत्वादौ विशिष्टं दानमिष्यते ॥९६॥
तर्पणं पितृदेवानां श्राद्धं दानं सदक्षिणम् ॥
तीर्थेतीर्थे च गोदानं नियतः प्रकृतो विधिः ॥ ॥ ९७ ॥
विशिष्टख्यातलिङ्गेषु वृषदानं विधीयते ॥
स्नानं विलेपनं पूजां देवतानां समाचरेत् ॥ ९८ ॥
जगतीं चार्चयेद्भक्त्या तथा चैवोपलेपयेत् ॥
प्रासादं धवलं सौधं कारयेज्जीर्णमुद्धरेत् ॥ ९९ ॥
पुष्पवाटीं स्नानकूपं निर्मलं कारयेद्व्रती ॥
ब्राह्मणानां भूरिदानं देवपूजाकराय च ॥ 7.1.28.१०० ॥
सर्वत्र देवयात्रायां विधिरेष प्रवर्त्तते ॥
तीर्थमभ्युद्धरेज्जीर्णं मार्जयेत्कथयेत्फलम् ॥ १०१ ॥
प्रसिद्धे च महादानं मध्यमे चैव मध्यमम् ॥
गोदानं सर्वतीर्थेषु सुवर्णमथ निष्क्रयः ॥
हिरण्यदानं सर्वेषां दानानामेव निष्कृतिः ॥ १०२ ॥
एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तीर्थेषु दानं वक्ष्यामि येषु यद्दीयते तिथौ ॥ १०३ ॥
प्रभासे प्रतिपद्दानं दातव्यं काञ्चनं शुभम् ॥
द्वितीयायां तथा वस्त्रं तृतीयायां च मेदिनीम् ॥ ॥१०४ ॥
चतुर्थ्यां दापयेद्धान्यं पञ्चम्यां कपिलां तथा ॥
षष्ठ्यामश्वं च सप्तम्यां महिषीं तत्र दापयेत् ॥ १०५॥
अष्टम्यां वृषभं दत्त्वा नीलं लक्षणसंयुतम् ॥
नवम्यां तु गृहं दद्याच्चक्रं शङ्खं गदां तथा ॥ १०६ ॥
दशम्यां सर्वगन्धांश् च एकादश्यां च मौक्तिकम् ॥
द्वादश्यां सुव्रतेन्नाद्यं प्रवालं विधिवत्तथा ॥ १०७ ॥
स्त्रियो देयास्त्रयोदश्यां भूतायां ज्ञानदो भवेत्॥
अमावास्यामनुप्राप्य सर्वदानानि दापयेत् ॥ १०८ ॥
एवं दानं प्रदत्त्वा तु दश कृत्वः फलं लभेत् ॥ १०९ ॥
॥ देव्युवाच ॥ ॥
भक्तिदानविहीना ये प्रभासं क्षेत्रमागताः ॥
स्नानमन्त्रविहीनाश् च वद तेषां तु किं फलम् ॥ ॥ 7.1.28.११० ॥
॥ ईश्वर उवाच ॥ ॥
सधना निर्द्धना वापि समन्त्रा मन्त्रवर्जिताः ॥
प्रभासे निधनं प्राप्ताः सर्वे यान्ति शिवालयम् ॥ १११ ॥
ये मन्त्रहीनाः पुरुषा धर्महीनाश् च ये मृताः ॥
तेषामेकं विमानं तु ददामि सुमहत्प्रिये ॥ ११२ ॥
स्नानदानानुरूप्येण प्राप्नुवन्ति परं पदम् ॥
केचित्स्नानप्रभावेन केचिद्दानेन मानवाः ॥ ११३ ॥
केचिल्लिङ्गप्रणामेन केचिल्लिङ्गार्च्चनेन च ॥
केचिद्ध्यानप्रभावेन केचिद्योगप्रभावतः ॥ ११४ ॥
केचिन्मं त्रस्य जाप्येन केचिच्च तपसा शुभे ॥
तीर्थे सन्न्यसनैः केचित्केचिद्भक्त्यनुसारतः ॥११५ ॥
एते चान्ये च बहव उत्तमाधममध्यमाः ॥
सर्वे शिवपुरं यान्ति विमानैः सूर्यसन्निभैः ॥ ११६ ॥
त्रिशूलाङ्कितहस्ताश् च सर्वे च वृषवाहनाः ॥
दिव्याप्सरोगणाकीर्णाः क्रीडन्ते मत्प्रभावतः ॥ ११७ ॥
एवं भक्त्यनुसारेण ददामि फलमव्ययम्॥
अलेपकं प्रभासं तु धर्माधर्मैर्न लिप्यते ॥ ११८ ॥
धर्मं चरन्त्यधर्मं वा शिवं यान्ति न संशयः ॥ ११९ ॥
जन्मप्रभृति यो देवि नरो नेत्रविवर्जितः ॥
मम क्षेत्रे मृतः सोऽपि रुद्रलोके महीयते ॥ 7.1.28.१२० ॥
जन्मप्रभृति यो देवि श्रवणाभ्यां विवर्जितः ॥
प्रभासे निधनं प्राप्तः स भवेन्मत्परिग्रहः ॥ १२१ ॥
अथातः सम्प्रवक्ष्यामि तीर्थानां स्पर्शने विधिम् ॥
मन्त्रेण मन्त्रितं तीर्थं भवेत्सन्निहितं तथा ॥ ॥।१२२ ॥
प्रथमं चालभेत्तीर्थं प्रणवेन जलं शुचि ॥
अवगाह्य ततः स्नायादध्यात्ममन्त्रयोगतः ॥ १२३ ॥
ओन्नमो देवदेवाय शितिकण्ठाय दण्डिने ॥
रुद्राय वामहस्ताय चक्रिणे वेधसे नमः ॥ १२४ ॥
सरस्वती च सावित्री वेदमाता विभावरी ॥
सन्निधानं कुरुष्वात्र तीर्थे पाप प्रणाशिनि ॥
सर्वेषामेव तीर्थानां मन्त्र एष उदाहृतः ॥ १२५ ॥
इत्युच्चार्य नमस्कृत्वा स्नानं कुर्याद्यथाविधि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रते ॥ १२६ ॥
सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः ॥ १२७ ॥
॥ देव्युवाच ॥ ॥
कस्मिंस्तीर्थे नरैः पूर्वं प्रभासक्षेत्रमागतैः ॥
स्नानं कार्यं महादेवि तन्मे विस्तरतो वद ॥ १२८ ॥
॥ ईश्वर उवाच ॥ ॥
हन्त ते सम्प्रवक्ष्यामि आद्यं तीर्थं महाप्रभम् ॥
पूर्वं यत्र नरैः स्नानं क्रियते तच्छृषुष्व मे ॥ १२९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तीर्थयात्रा विधानवर्णनन्नामाष्टाविंशोऽध्यायः ॥ २८ ॥