०२७ गन्धर्वसेनेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अथ तत्रैव देवेशि लिङ्गं गन्धर्वसेनया ॥
स्थापितं घनवाहस्य पुत्र्या गौरीसमीपतः ॥ १ ॥
धनुषां त्रितये तत्र स्थितं पूर्वविभागतः ॥
विमलेश्वरनामानं सर्वरोगविनाशनम् ॥ २ ॥
पूजयित्वा तृतीयायां दौर्भाग्यैर्मुच्यतेऽङ्गना ॥
सर्वान्कामानवाप्नोति पुत्रपौत्रप्रतिष्ठिता ॥ ३ ॥
इति व्रतं महादेवि त्रेतासन्ध्यांशके गते ॥
गन्धर्वस्यैवमाख्यातं श्रुतं पातकनाशनम्॥ ४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वसेनेश्वरमाहात्म्यवर्णनन्नाम सप्तविंशोऽध्यायः ॥ ॥ २७ ॥ ॥ ॥