०२६ गन्धर्वेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
अथ लब्धवरस्तत्र कृतार्थो भक्तिसंयुतः॥
स्थापयामास लिङ्गं स गन्धर्वो घनवाहनः॥
सोमेशादुत्तरे भागे दण्डपाणिसमीपतः॥
गन्धर्वेश्वरनामानं गान्धर्वफलदायकम्॥२॥
वरदावारुणे भागे धनुषां पञ्चके स्थितम्॥
पञ्चम्यां पूजयित्वा च न दुःखी जायते नरः॥
इति श्री स्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनन्नाम षड्विंशतितमो ऽध्यायः ॥ २६ ॥