॥ ईश्वर उवाच ॥ ॥
तस्याग्नेये तु देवेशि अरुणेन प्रतिष्ठितम्॥
धनुषां च त्रये तत्र सिद्धलिङ्गसमीपतः ॥१॥
सूर्यसारथिना तत्र लिङ्गं देविप्रतिष्ठितम्॥
कलौ पापहरन्नाम दर्शनात्पापनाशनम् ॥ २ ॥
चैत्रमास त्रयोदश्यां शुक्लायां वरवर्णिनि ॥
पूजयेद्विधिवद्भक्त्या पौण्डरीकफलं लभेत् ॥ ३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पापनाशनोत्पत्तिवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥