०१२ यमेश्वरोत्पत्तिवर्णनम्

॥ ईश्वर उवाच ॥ ॥
या सञ्ज्ञा सा स्मृता राज्ञी छाया या सा तु निक्षुभा ॥
राजृ दीप्तौ स्मृतो धातू राजा राजति यः सदा ॥ १ ॥
अधिकं सर्वभूतेभ्यस्तस्माद्राजा स उच्यते ॥
राजपत्नी तु सा यस्मात्तस्माद्राज्ञी प्रकीर्तिता ॥ २ ॥
क्षुभ सञ्चलने धातुर्निश्चला तेन निक्षुभा ॥
भवन्ति ह्यथवा यस्मात्स्वाङ्गीयाः क्षुद्विवर्जिताः ॥ ३ ॥
छाया तां विशते दिव्या स्मृता सा तेन निक्षुभा ॥
साम्प्रतं वर्तते योऽयं मनुर्लोके महामते ॥ ४ ॥
तस्यान्ववाये जातस्तु शङ्खचकगदाधरः ॥
यमस्तु मात्रा संशप्तो हीनपादो धरातले ॥ ५ ॥
प्रभासक्षेत्रमासाद्य चचार विपुलं तपः ॥
वर्षाणामयुतं साग्रं लिङ्गं पूजितवान्प्रिये ॥ ६ ॥
तुष्टश्चाहं ततस्तस्य वराणां च शतं ददौ ॥
अद्यापि तत्र देवेशि यमेश्वरमिति श्रुतम् ॥
यमद्वितीयायां दृष्ट्वा यमलोकं न पश्यति ॥ ७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये यमेश्वरोत्पत्तिवर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥