॥ ईश्वर उवाच ॥ ॥
अन्यच्च कथयिष्यामि रहस्यं तव भामिनि ॥
यत्र कस्य चिदाख्यातं तत्ते वच्मि वरानने ॥ १ ॥
पृथ्वीभागे स्थितो ब्रह्मा अपां भागे जनार्द्दनः ॥
तेजोभागस्थितो रुद्रो वायुभागे तथेश्वरः ॥ २ ॥
आकाशभागसंस्थाने स्थितः साक्षात्सदाशिवः ॥ ३ ॥
यस्ययस्यैव यो भागस्तस्मिंस्तीर्थानि यानि वै ॥
तस्यतस्य न सन्देहः स स एवेश्वरः स्मृतः ॥ ४ ॥
छागलण्डं दुगण्डं च माकोटं मण्डलेश्वरम् ॥
कालिञ्जरं वनं चैव शङ्कुकर्णं स्थलेश्वरम् ॥ ५ ॥ महाभूतोपरि टिप्पणी
शूलेश्वरं च विख्यातं पृथ्वीतत्त्वे च संस्थितम् ॥
हरिश्चन्द्रं च श्रीशैलं जल्पेशोन्नान्तिकेश्वरम्॥ ६ ॥
महाकालं मध्यमं च केदारं भैरवं तथा ॥
पवित्राष्टकमेतद्धि जलसंस्थं वरानने ॥ ७ ॥
अमरेशं प्रभासं च नैमिषं पुष्करं तथा ॥
आषाढिं चैव दण्डिं च भारभूतिं च लाङ्गलम् ॥ ८ ॥
आदि गुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम् ॥
गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ ९ ॥
विमलं चाट्टहासं च माहेन्द्रं भीमसञ्ज्ञकम् ॥
गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ 7.1.10.१० ॥
वस्त्रापथं रुद्रकोटिर्ज्येष्ठेश्वरं महालयम् ॥
गोकर्णं रुद्रकर्णं च वर्णाख्यं स्थापसञ्ज्ञकम् ॥ ११ ॥
पवित्राष्टकमेतद्धि आकाशस्थं वरानने ॥
एतानि तत्त्वतीर्थानि सर्वाणि कथितानि वै ॥ १२ ॥
यो यस्मिन्देवता तत्त्वे सा तन्माहात्म्यसूचिका ॥
औदकं च महातत्त्वं विष्णोश्चातिप्रियं प्रिये ॥ १३ ॥
जलशायी स्मृतस्तेन नारायण इति श्रुतिः ॥
आप्यतत्त्वं तु तीर्थानि यानि प्रोक्ता- नि ते मया ॥ १४॥
तानि प्रियाणि देवेशि ध्रुवं नारायणस्य वै ॥
औदकं चैव यत्तत्त्वं तस्मिन्प्राभासिकं स्मृतम् ॥ १५ ॥
तत्र देवो लयं याति हरिर्जन्मनिजन्मनि ॥
स वासुदेवः सूक्ष्मात्मा परात्परतरे स्थितः ॥ १६ ॥
स शिवः परमं व्योम अनादिनिधनो विभुः ॥
तस्मात्परतरं नास्ति सर्वशास्त्रागमेषु च ॥ १७ ॥
सिद्धान्तागमवेदान्तदर्शनेषु विशेषतः ॥
तेषु चैव न भिन्नस्तु मया सार्द्धं यशस्विनि ॥ १८ ॥
तस्मिन्स्थाने हरिः साक्षात्प्रत्यक्षेण तु संस्थितः ॥
लिङ्गैश्चतुर्भिः संयुक्तो ज्ञायते न च केनचित् ॥ १९ ॥
मोक्षार्थं नैष्ठिकैर्वर्णैर्व्रतैश्चैव तु यत्फलम् ॥
तत्फलं समवाप्नोति भल्लुकातीर्थदर्शनात्॥ 7.1.10.२० ॥
गोचर्ममात्रं तत्स्थानं समन्तात्परिमण्डलम् ॥
न हि कश्चिद्विजानाति विना शास्त्रेण भामिनि॥ २१ ॥
विषुवं वहते तत्र नृणामद्यापि पार्वति ॥
पञ्चलिङ्गानि तत्रैव पञ्चवक्त्राणि कानि चित् ॥ २२ ॥
कुक्कुटाण्डकमानानि महास्थूलानि कानिचित्॥
सर्पेण वेष्टितान्येव चिह्नितानि त्रिशूलिभिः ॥ २३ ॥
तेषां दर्शनमात्रेण कोटिलिङ्गार्चनफलम् ॥
तस्मादिदं महाक्षेत्रं ब्रह्माद्यैः सेव्यते सदा ॥२४ ॥
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः ॥
प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम् ॥ २५ ॥
शशिभानूपरागे वा कार्त्तिक्यां तु विशेषतः ॥
प्रभासस्थानि लिङ्गानि प्रपूज्यन्ते वरानने ॥ २६ ॥
सन्निहत्यां कुरुक्षेत्रे सर्वस्तीर्थायुतैः सह ॥
पुष्करं नैमिषं चैवं प्रयागं सम्पृथूदकम् ॥२७॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
माघ्याम्माघ्यां समेष्यन्ति सरस्वत्यब्धिसङ्गमे ॥ २८ ॥
स्मरणात्तस्य तीर्थस्य नामसङ्कीर्तनादपि ॥
मृत्युकालभवाद्वापि पापं त्यक्ष्यति सुव्रते ॥ २९ ॥
आनर्त्तसारं सौम्यं च तथा भुवनभूषणम् ॥
दिव्यं पाञ्चनदं पुण्यमादिगुह्यं महोदयम् ॥ 7.1.10.३० ॥
सिद्ध रत्नाकरं नाम समुद्रावरणं तथा॥
धर्माकारं कलाधारं शिवगर्भगृहं तथा ॥३१॥
सर्वदेवनिवेशं च सर्वपातकनाशनम्॥
अस्य क्षेत्रस्य नामानि कल्पे कल्पे पृथक्प्रिये ॥ ३२ ॥
आयामादीनि जानीहि गुह्यानि सुरसुन्दरि ॥
आद्ये कल्पे पुरा देवि प्रमोदनमिति स्मृतम् ॥ ३३ ॥
नन्दनं परितस्तस्य तस्यापि परतः शिवम् ॥
शिवात्परतरं चोग्रं भद्रिकं परतः पुनः ॥ ३४ ॥
समिन्धनं परं तस्मात्कामदं च ततः परम् ॥
सिद्धिदं चापि धर्मज्ञं वैश्वरूपं च मुक्तिदम्॥ ३५ ॥
तथा श्रीपद्मनाभं तु श्रीवत्सं तु महाप्रभम्॥
तथा च पापसंहारं सर्वकामप्रदं तथा ॥ ३६ ॥
मोक्षमार्गं वरा रोहे तथा देवि सुदर्शनम् ॥
धर्मगर्भं तु धर्माणां प्रभासं पापनाशनम् ॥
अतः परं भवन्तीह उत्पलावर्त्तिकानि च ॥ ३७ ॥
क्षेत्रस्य मध्ये यद्देवि मम गर्भगृहं स्मृतम् ॥
तस्य नामानि ते देवि कथितान्यनुपूर्वशः ॥ ३८ ॥
श्रुत्वा नामान्यशेषाणि क्षेत्रमाहात्म्यमेव च ॥
तेषां तु वाञ्छिता सिद्धि र्भविष्यति न संशयः ॥ ३९ ॥
एतत्कीर्त्तयमानस्य त्रिकालं तु महोदयम् ॥
सन्ध्याकालान्तरं पापमहोरात्रं विनश्यति ॥ 7.1.10.४० ॥
अपि वै दाम्भिकाश्चैव ये वसन्त्यल्पबुद्धयः ॥
मूढा जीवनिका विप्रास्तेऽपि यान्ति मृता दिवम् ॥ ४१ ॥
अस्य क्षेत्रस्य मध्ये तु रवियोजनमध्यतः ॥
उपक्षेत्राणि देवेशि सन्त्यन्यानि सहस्रशः ॥ ४२ ॥
कानिचित्पद्मरूपाणि यवाकाराणि कानिचित् ॥
षट्कोणानि त्रिकोणानि दण्डाकाराणि कानिचित् ॥ ४३ ॥
चन्द्रबिम्बार्द्धभेदानि चतुरस्रप्रभेदतः ॥
ब्रह्मादिदैवतानीशे क्षेत्रमध्ये स्थितानि तु ॥ ४४ ॥
कानिचिद्योजनार्द्धानि तदर्धार्धानि कानिचित् ॥
निवर्त्तनप्रमाणेन दण्डमानेन कानिचित् ॥४५ ॥
गोचर्ममानमध्यानि कानिचिद्धनुषान्तरम् ॥
यज्ञोपवीतमात्राणि प्रभासे सन्ति कोटिशः ॥ ४६ ॥
अङ्गुल्यष्टम भागोऽपि नभोस्ति कमलेक्षणे ॥
न सन्ति यस्मिंस्तीर्थानि दिव्यानि च नभस्तले ॥ ४७ ॥
प्रभासक्षेत्रमासाद्य तिष्ठन्ति प्रलयादनु ॥
केदारे चैव यल्लिङ्गं यच्च देवि महालये ॥ ४८ ॥
मध्यमेश्वरसंस्थं च तथा पाशुपतेश्वरम् ॥
शङ्कुकर्णेश्वरं चैव भद्रेश्वरमथापि च ॥ ४९ ॥
सोमे श्वरमथैकाग्रं कालेश्वरमजेश्वरम् ॥
भैरवेश्वरमीशानं तथा कायावरोहणम् ॥ 7.1.10.५० ॥
चापटेश्वरकं पुण्यं तथा बदरिकाश्रमम् ॥
रुद्रकोटिर्महाकोटि स्तथा श्रीपर्वतं शुभम् ॥५१॥
कपाली चैव देवेशः करवीरं तथा पुनः ॥
ओङ्कारं परमं पुण्यं वशिष्ठाश्रममेव च ॥
यत्र कोटिः स्मृता देवि रुद्राणां कामरूपिणाम् ॥ ५२ ॥
यानि चान्यानि स्थानानि पुण्यानि मम भूतले ॥
प्रयागं पुरतः कृत्वा प्रभासे निवसन्ति च ॥ ५३ ॥
उत्तरे रविपुत्री तु दक्षिणे सागरं स्मृतम् ॥
दक्षिणोत्तरमानोऽयं क्षेत्रस्यास्य प्रकीर्त्तितः ॥ ५४ ॥
रुक्मिण्याः पूर्वतश्चैव तप्ततोयाच्च पश्चिमे ॥
पूर्वपश्चिममानोऽयं प्रभासस्य प्रकीर्त्तितः ॥ ५५ ॥
एतदन्तरमासाद्य तीर्थानि सुरसुन्दरि ॥
पातालादिकटाहान्तं तानि तत्र वसन्ति वै ॥ ५६ ॥
एवं ज्ञात्वा महादेवि सर्वदेवमयो हरिः ॥
प्रभासक्षेत्रमासाद्य तत्याज स्वं कलेवरम् ॥ ५७ ॥
दिव्यं ममेदं चरितं हि रौद्रं श्रोष्यन्ति ये पर्वसु वा सदा वा ॥
ते चापि यास्यन्ति मम प्रसादात्त्रिविष्टपं पुण्यजनाधिवासम् ॥ ५८ ॥
इति कथितमशेषमेव चित्रं चरितमिदं तव देवि पुण्ययुक्तम् ॥
इतरमपि तवातिवल्लभं यद्वद कथयामि महोदयं मुनीनाम् ॥ ५९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभास क्षेत्रस्थ तीर्थक्षेत्रमाहात्म्यद्वारा प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनन्नाम दशमोऽध्यायः ॥१०॥