॥ सूत उवाच ॥ ॥
इत्येवमुक्ते विप्रेन्द्रा शङ्करेण महात्मना ॥
पुनः पप्रच्छ सा देवी हर्षसम्पूर्णमानसा ॥ १ ॥
॥ देव्युवाच ॥ ॥
देवदेव जगन्नाथ सर्वप्राणहिताय वै ॥
प्रभासक्षेत्रमाहात्म्यं विस्तराद्वद मे प्रभो ॥ २ ॥
॥ ईश्वर उवाच ॥ ॥
अन्यद्दृष्टान्तरूपं ते कथयामि यशस्विनि ॥
येन सृष्टं महादेवि क्षेत्रमेतन्मम प्रियम् ॥ ३ ॥
या गतिर्ध्यायतां नित्यं निःसङ्गानां च योगिनाम् ॥
सैवं सन्त्यजतां प्राणान्प्रभासे तु परा गतिः ॥ ४ ॥
अनेककल्पस्थायी च मार्कण्डेयो महातपाः ॥
सोऽपि देवं विरूपाक्षं प्रभासे तु सदाऽर्चति ॥५॥
अटित्वा सर्वतीर्थानि प्रभासं नैव मुञ्चति ॥
दुर्वासाश्च महातेजा लिङ्गस्याराधनोद्यतः ॥
न मुञ्चति क्षणं देवि तत्क्षेत्रं शशिमौलिनः ॥ ६ ॥
भरद्वाजो मरीचिश्च मुनिश्चोद्दालकस्तथा ॥
क्रतुश्चैव वसिष्ठश्च कश्यपो भृगुरेव च ॥। ७ ॥॥
दक्षश्चैव तु सावर्णिर्यमश्चाङ्गिरसस्तथा॥ ॥
शुको विभाण्डकश्चैव ऋष्यशृङ्गोऽथ गोभिलः ॥८॥
गौतमश्च ऋचीकश्च अगस्त्यः शौनको महान्॥
नारदो जमदग्निश्च विश्वामित्रोऽथ लोमशः ॥ ९ ॥
अन्ये च ऋषयश्चैव दिव्या देवर्षयस्तथा ॥
न मुञ्चन्ति महाक्षेत्रं लिङ्गस्याराधनोद्यताः ॥ 7.1.5.१० ॥
अहं तत्रैव तिष्ठामि लिङ्गाराधनतत्परः ॥
न मुञ्चामि महाक्षेत्रं सत्यंसत्यं वरानने ॥ ११ ॥
सर्वतीर्थानि देवेशि मया दृष्टानि भूतले ॥
प्रभासेन समं क्षेत्रं नैव दृष्टं कदाचन ॥ १२ ॥
देवि षष्टिसहस्राणि याज्ञवल्क्यपुरस्कृताः ॥
जपं कुर्वन्ति रुद्राणां चन्द्रभागां व्यवस्थिताः ॥ १३ ॥
चत्वारिंशत्सहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥
देविकातटमाश्रित्य जपन्ति शतरुद्रियम् ॥ १४ ॥
कोटयश्चैव पञ्चाशन्मुनीनामूर्द्ध्वरेतसाम् ॥
उमापतिं समासाद्य लिङ्गं तत्रैव संस्थितम् ॥ १५ ॥
रुद्राणां कोटि जाप्यं तु कृतं तत्रैव तैः पुरा ॥
कोटिस्तत्रैव संसिद्धास्तस्मिंल्लिङ्गे न संशयः ॥१६॥
शतं चैव सहस्राणां देवेशं शशिभूषणम् ॥
पूजयन्ति महासिद्धा मम क्षेत्रनिषेविणः ॥१७॥
वेदान्तेषु च यत्प्रोक्तं फलं चैव महर्षिभिः ॥
तत्फलं सकलं तत्र चन्द्रभूषणदर्शनात् ॥ १८ ॥
अग्नितीर्थे ऋषीणां तु कोटिः साग्रा स्थिता शुभे ॥
रुद्रेश्वरे स्मृतं लक्षं कम्पर्द्दीशे तथैव च ॥ १९ ॥
रत्नेश्वरे सहस्रं तु ऋषीणामूर्द्ध्वरेतसाम् ॥
अर्कस्थले महापुण्ये कोटिः साग्रा स्थिता शुभे ॥ 7.1.5.२० ॥
षष्टिश्चैव सहस्राणि तत्र सिद्धेश्वरे स्थिताः ॥
सप्त चैव सहस्राणि मार्कण्डेये तु संस्थिताः ॥ २१ ॥
सरस्वत्यां ब्रह्मकुण्डेऽसङ्ख्याता मुनयः स्मृताः ॥
दशार्बुदसहस्राणि कोटित्रितयमेव च ॥ २२ ॥
ऋषयस्तत्र तिष्ठन्ति यत्र प्राची सरस्वती ॥
ब्रह्महत्या गता यत्र शङ्करस्य च तत्क्षणात् ॥ २३ ॥
कायः सुवर्णतां प्राप कपालं पतितं करात् ॥
ज्ञात्वैवं शङ्किना पूर्वं कृतं तत्र महातपः ॥ २४ ॥
तुष्टः श्रीशङ्करो देवो लिङ्ग वासवरेण तु ॥
कोटियज्ञफलं स्नाने प्राच्यां लिङ्गस्य पूजने ॥ २५ ॥
पिण्डे गयाशतगुणममासोमयुते दिने ॥
भूतायां पिण्डदस्तत्र कुलकोटिं समुद्धरेत् ॥ २६ ॥
ये चात्र मलनाशाय निमङ्क्ष्यन्ति च मानवाः ॥
दशगोदानजं पुण्यं तेषामपि भविष्यति ॥२७॥
पादेन वा क्रीडमाना जलं लिप्सन्ति ये नरा ॥
तेषामपि श्राद्धफलं विधिवत्सम्भविष्यति ॥
तत्र लिङ्गानि पूज्यानि शूलभेदादिकानि तु ॥ २८ ॥
एवं विकल्प्य लिङ्गानि अश्वमेध फलानि तु ॥
दर्शनेनापि सर्वेषां स्पर्शाद्धि द्विगुणं फलम् ॥२९॥
एवं तुष्टो जगन्नाथः स्थितः प्राचीवने ध्रुवम् ॥
मनोऽपि ये करिष्यन्ति स्नानदानेषु का कथा ॥7.1.5.३॥।
तेषां तुष्टो जगन्नाथः शङ्करो नीललोहितः ॥
त्रिंशत्कोटिगणस्तत्र प्राचीं रक्षन्ति सर्वतः ॥३१॥
महापापसमाचारः पापिष्ठो वाऽति किल्बिषी ॥
घुणाक्षरमिव प्राणान्प्राच्यां मुक्त्वा शिवं व्रजेत् ॥ ३२ ॥
दधिकम्बलदानं तु तत्र देयं द्विजोत्तमे ॥
कथितं पापशमनं सारात्सारतरं ध्रुवम् ॥ ३३ ॥
अधुना सम्प्रवक्ष्यामि हिरण्याश्च महोदयम् ॥
दुर्वाससा तपस्तप्तं तत्र सूर्यः प्रतिष्ठितः ॥ ३४ ॥
कोटिरेका तु तत्रैव ऋषीणामूर्द्ध्वरेतसाम् ॥
चतुर्विंशतितत्त्वानामधिको बलरूपधृक् ॥ ३५ ॥
यत्र तिष्ठति देवेशि भृगुकोटिसमन्वितः ॥
अन्यत्र ब्राह्मणानां तु कोट्या यच्च फलं लभेत् ॥ ३६ ॥
ब्रह्मस्थाने तथैकेन भोजितेन तु तत्फलम् ॥
एवं ज्ञात्वा महादेवि तत्र तिष्ठामि निर्वृतः॥
कोटिर्भिर्देवऋषिभिर्देवैः सह समावृतः ॥
तीर्थानि तत्र तिष्ठन्ति अन्तर्भूतानि वै कलौ ॥ ३८ ॥
तत्र क्षेत्रे महारम्ये यत्र सोमेश्वरः स्थितः॥
मम देवि गणौ द्वौ तु विभ्रमः सम्भ्रमः परः ॥ ३९ ॥
तौ चात्र क्षेत्रसंस्थानां लोकानां भ्रमविभ्रमैः ॥
योजयन्ति सदा चित्तं विकल्पानैक्यसङ्कुलम् ॥ 7.1.5.४० ॥
विनायकोपसर्गाश्च दश दोषास्तथा परे ॥
एवं क्षेत्रं तु रक्षन्ति पापिनां दुष्टचेतसाम् ॥ ४१ ॥
दण्डपाणिं तु ये भक्त्या पश्यन्तीह नरोत्तमाः ॥
न तेषां जायते विघ्नं तत्र क्षेत्रनिवासिनाम् ॥ ४२ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसङ्कराः ॥
अकामा वा सकामा वा प्रभासे ये मृताः शुभे ॥ ४३ ॥
चन्द्रार्द्धमौलिनः सर्वे ललाटाक्षा वृषध्वजाः ॥
शिवे मम पुरे दिव्ये जायन्ते तत्र मानवाः ॥ ४४ ॥
यस्तत्र वसते विप्रः संयतात्मा समाहितः ॥
त्रिकालमपि भुञ्जानो वायुभक्षसमो भवेत् ॥ ४५ ॥
मेरोः शक्या गुणा वक्तुं द्वीपानां च गुणास्तथा ॥
समुद्राणां च सर्वेषां शक्या वक्तुं गुणाः प्रिये ॥ ४६ ॥
आदिदेवस्य देवेशि महेशस्य महाप्रभोः ॥
शक्या नैव गुणा वक्तुं वर्षाकोटिशतैरपि ॥ ४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये क्षेत्रस्थर्षिदेवगणवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥