२७० पापपिण्डप्रदानविधानवर्णनम्

आनर्त उवाच॥
मूर्खत्वाद्वा प्रमादाद्वा कामाद्बालस्यतोऽपि वा॥
यो नरः कुरुते पापं प्रायश्चित्तं करोति न ॥१॥
तस्य पापक्षयकरं पुण्यं ब्रूहि द्विजोत्तम॥
येन मुक्तिर्भवेत्सद्यो यदि तुष्टोऽसि मे प्रभो॥२॥
लोभमोहपरो योऽसौ पापपिण्डं महामुने॥
प्रददाति विधिं ब्रूहि येन यच्छाम्यहं द्रुतम्॥३॥
भर्तृयज्ञ उवाच॥
दद्यात्स्वपिण्डं सौवर्णं पञ्चविंशत्पलात्मकम्॥४॥
विधायापरपक्षे तु स्नापयित्वा विधानतः॥
मण्डपाद्यं च प्राक्कृत्वा स्नात्वा धौताम्बरः शुचिः॥५॥
तदा स्वरूपं पृथ्व्यादि पूजयेत्पापकृन्नरः॥
तथा स मुच्यते पापात्तत्कृताद्धि न संशयः॥६॥
चतुर्विंशतितत्त्वानि पृथिव्यादीनि यानि च॥
तेषां नामभिस्तत्पिण्डं पूजयेतन्नराधिपः॥७॥
ॐ पृथिव्यै नमः॥
ॐ अद्भ्यो नमः॥
ॐ तेजसे नमः॥
ॐ वायवे नमः॥
ॐ आकाशाय नमः॥
ॐ घ्राणाय नमः॥
ॐ जिह्वायै नमः॥
ॐ चक्षुषे नमः॥
ॐ त्वचे नमः॥
ॐ श्रोत्राय नमः॥
ॐ गन्धाय नमः॥
ॐ रसाय नमः॥
ॐ रूपाय नमः॥
ॐ स्पर्शाय नमः॥
ॐ शब्दाय नमः॥
ॐ वाचे नमः॥
ॐ पाणिभ्यां नमः॥
ॐ पादाभ्यां नमः॥
ॐ पायवे नमः॥
ॐ उपस्थाय नमः॥
ॐ मनसे नमः॥
ॐ बुद्ध्यै नमः॥
ॐ चित्ताय नमः॥
ॐ अहङ्काराय नमः।
ॐ क्षेत्रात्मने नमः॥
ॐ परमात्मने नमः॥
धूपं धूरसि मन्त्रेण अग्निर्ज्योतीति दीपकम्॥
युवा सुवासेति च ततो वासांसि परिधापयेत्॥८॥
ततो ब्राह्मणमानीय वेदवेदाङ्गपारगम्॥
प्रक्षाल्य चरणौ तस्य वासांसि परिधापयेत्॥९॥
केयूरैः कङ्कणैश्चैव अङ्गुलीयकभूषणैः॥ ६.२७०.१०॥
भूषयित्वा तनुं तस्य ततो मूर्तिं समानयेत्॥
मन्त्रेणानेन राजेन्द्र ब्राह्मणाय निवेदयेत्॥११॥
एष आत्मा मया दत्तस्तव हेममयो द्विज॥
यत्किञ्चिद्विहितं पापं पूर्वं भूयात्तवाखिलम्॥१२॥
इति दानमन्त्रः॥
ततस्तु ब्राह्मणो राजन्मन्त्रमेतं समुच्चरेत्॥१३॥
यत्किञ्चिद्विहितं पापं त्वया पूर्वम्मया हि तत्॥
गृहीतं मूर्तिरूपं तत्ततस्त्वं पापवर्जितः॥
इति प्रतिग्रहमन्त्रः॥ १४॥
एवं दत्त्वा विधानेन ततो विप्रं विसर्जयेत्॥
एवं कृते ततो राजंस्तस्मै दत्त्वाथ दक्षिणाम्॥१५॥
यथा तुष्टिं समभ्येति ततः पापं नयत्यसौ॥
तस्मिन्कृते महाराज प्रत्ययस्तत्क्षणाद्भवेत्॥ १६॥
शरीरं लघुतामेति तेजोवृद्धिश्च जायते॥
स्वप्ने च वीक्षते रात्रौ सन्तुष्टमनसः स्थितान्॥१७॥
नरान्स्त्रियः सितैर्वस्त्रैः श्वेतमाल्यानुलेपनैः॥
श्वेतान्गोवृषभानश्वांस्तीर्थानि विविधानि च॥१८॥
एतत्ते सर्वमाख्यातं पापपिण्डस्य दापनम्॥
श्रवणादपि राजेन्द्र यस्य पापैः प्रमुच्यते॥१९॥
अन्यत्रापि महादानं पापपिण्डो हरेन्नृप॥६.२७०.२०।
एकजन्मकृतं पापं निजकायेन निर्मितम्॥
कपालेश्वरदेवस्य सहस्रगुणितं हरेत्॥२१॥
पूर्ववच्चैव कर्तव्यो वेदिमण्डपयोर्विधिः॥
परं होमः प्रकर्तव्यो गायत्र्या केवलं नृप॥२२।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कपालेश्वरक्षेत्रमाहात्म्यप्रसङ्गेन पापपिण्डप्रदानविधानवर्णनन्नाम सप्तत्युत्तरद्विशततमोऽध्यायः॥२७०॥