२५१ विष्णुशापः

॥ गालव उवाच ॥ ॥
इत्युक्त्वाऽऽकाशजावाणी विरराम शुभप्रदा ॥
तेऽपि देवास्तदाश्चर्यं महद्दृष्ट्वा महाव्रताः ॥ १ ॥
चतुष्टयं च वृक्षाणां चातुर्मास्ये समागते ॥
अपूजयंश्च विधिवदैक्यभावेन शूद्रज ॥ २ ॥
चातुर्मास्येऽथ सम्पूर्णे देवो हरिहरात्मकः ॥
प्रसन्नस्तानुवाचाथ भक्त्या प्रत्यक्षरूपधृक् ॥ ३ ॥
यूयं गच्छत देवेश महा व्रतपरायणाः ॥
भुङ्क्त स्वान्स्वांश्चाधिकारान्मया ते दानवा हताः ॥ ४ ॥
इत्युक्त्वा देवदेवेशावैक्यरूपधरौ यदा ॥
गणानां देवतानां च बुद्धिं निर्भेदतां तदा ॥ ५ ॥
नयन्तौ तौ तदा चेशा बभूवतुररिन्दमौ॥
तेऽपि देवा निराबाधा हृष्टचित्ता ह्यभेदतः ॥ ६ ॥
प्रययुः स्वांश्चाधिकारान्विमानगण कोटिभिः ॥
॥ गालव उवाच ॥ ॥
तथा तत्रापि ते देवाः पार्वत्याः शापमोहिताः ॥ ७ ॥
स्तुत्वा तां बिल्वपत्रैश्च पूजयित्वा महेश्वरीम् ॥
प्रसन्नवदनां स्तुत्वा प्रणिपत्य पुनःपुनः ॥ ८ ॥
सा प्रोवाच ततो देवान्विश्वमाता तु संस्तुता ॥
मम शापो वृथा नैव भविष्यति सुरोत्तमाः ॥ ९ ॥
तथापि कृतपापानां करवाणि कृपां च वः ॥
स्वर्गे दृषन्मया नैव भविष्यथ सुरोत्तमाः ॥ ६.२५१.१० ॥
मर्त्यलोकं च सम्प्राप्य प्रतिमासु च सर्वशः ॥
सर्वे देवाश्च वरदा लोकानां प्रभविष्यथ ॥ ११ ॥
पाणिग्रहेण विहिता ये कुमाराः कुमारिकाः ॥
तेषान्तेषां प्रजाश्चैव भविष्यथ न संशयः ॥ १२ ॥
इत्युक्त्वा सा भगवती देवतानां वरप्रदा ॥
विष्णुं महेश्वरं चैव प्रोवाच कुपिता भृशम् ॥ १३ ॥
देवास्तस्या भयान्नष्टा मर्त्येषु प्रतिमां गताः ॥
भक्तानां मानसं भावं पूरयन्तः सुसंस्थिताः ॥ १४ ॥
यस्माद्विष्णो महेशानस्त्वयाऽपि न निषेधितः ॥
तस्मात्त्वमपि पाषाणो भविष्यसि न संशयः ॥ १५ ॥
हरोऽप्यश्ममयं रूपं प्राप्य लोकविगर्हितम् ॥
लिङ्गाकारं विप्रशापान्महद्दुःखमवाप्स्यति ॥ १६ ॥
तच्छ्रुत्वा भगवान्विष्णुः पार्वतीमनुकूलयन् ॥
उवाच प्रणतो भूत्वा हरभार्यां महेश्वरीम् ॥ १७ ॥
॥ श्रीविष्णुरुवाच ॥ ॥
महाव्रते महादेवि महादेवप्रिया सदा ॥
त्वं हि सत्त्वरजःस्था च तामसी शक्तिरुत्तमा ॥ १८ ॥
मात्रात्रयसमोपेता गुणत्रयविभाविनी ॥
मायादीनां जनित्री त्वं विश्वव्यापकरूपिणी ॥ १९ ॥
वेदत्रयस्तुता त्वं च साध्यारूपेण रागिणी ॥
अरूपा सर्वरूपा त्वं जनसन्तानदायिनी ॥ ६.२५१.२० ॥
फलवेला महाकाली महालक्ष्मीः सरस्वती ॥
ओङ्कारश्च वषट्कारस्त्वमेव हि सुरेश्वरि ॥ २१ ॥
भूतधात्रि नमस्तेऽस्तु शिवायै च नमोऽस्तु ते ॥
रागिण्यै च विरागिण्यै विकराले नमः शुभे ॥ २२ ॥
एवं स्तुता प्रसन्नाक्षी प्रसन्नेनान्तरात्मना ॥
उवाच परमोदारं मिथ्यारोषयुतं वचः ॥ २३ ॥
मच्छापो नाऽन्यथा भावी जनार्दन तवाप्ययम् ॥
तत्राऽपि संस्थितस्त्वं हि योगीश्वरविमुक्तिदः ॥ २४ ॥
कामप्रदश्च भक्तानां चातुर्मास्ये विशेषतः ॥
निम्नगा गण्डकीनाम ब्रह्मणो दयिता सुता ॥ २५ ॥
पाषाणसारसम्भूता पुण्यदात्री महाजला ॥
तस्याः सुविमले नीरे तव वासो भविष्यति ॥ २६ ॥
चतुर्विंशतिभेदेन पुराणज्ञैर्निरीक्षितः ।
मुखे जाम्बूनदं चैव शालग्रामः प्रकीर्तितः ॥ २७ ॥
वर्त्तुलस्तेजसः पिण्डः श्रिया युक्तो भविष्यसि ॥
सर्वसामर्थ्यसंयुक्तो योगिनामपि मोक्षदः ॥ २८ ॥
ये त्वां शिलागतं विष्णुं पूजयिष्यन्ति मानवाः ॥
तेषां सुचिन्तितां सिद्धिं भक्तानां सम्प्रयच्छसि ॥ २९ ॥
शिलागतं च देवेशं तुलस्या भक्ति तत्पराः ॥
पूजयिष्यन्ति मनुजास्तेषां मुक्तिर्न दूरतः ॥ ६.२५१.३० ॥
शिलास्थितं च यः पश्येत्त्वां विष्णुं प्रतिमागतम् ॥
सुचक्राङ्कितसर्वाङ्गं न स गच्छेद्यमालयम् ॥ ३१ ॥
॥ गालव उवाच ॥ ॥
इति ते कथितं सर्वं शालग्रामस्य कारणम् ॥
यथा स भगवान्विष्णुः पाषाणत्वमुपा गतः ॥ ३२ ॥
गोविन्दोऽपि महाशापं लब्ध्वा स्वभवनं गतः ॥
पार्वती च महेशानं कुपिता प्रणमय्य च ॥ ३३ ।
एवं स एव भगवान्भवभूत भव्यभूतादिकृत्सकलसंस्थितिनाशनाङ्कः ॥
सोऽपि श्रिया सह भवोऽपि गिरीशपुत्र्या सार्द्धं चतुर्षु च द्रुमेषु निवासमाप ॥ ३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैज वनोपाख्याने विष्णुशापोनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥