२४४ शालिग्रामशिलासुमूर्त्त्युत्पत्तिवर्णनम्

॥ पैजवन उवाच ॥ ॥
एतान्भेदान्मम ब्रूहि विस्तरेण तपोधन ॥
त्वद्वाक्यामृतपानेन तृषा नैव प्रशाम्यति ॥ १ ॥
॥ गालव उवाच ॥ ॥
शृणु विस्तरतो भेदान्पुराणोक्तान्वदामि ते ॥
याञ्छ्रुत्वा मुच्यतेऽवश्यं मनुजः सर्वकिल्बिषात् ॥ २ ॥
पूर्वं तु केशवः पूज्यो द्वितीयो मधुसूदनः ॥
सङ्कर्षणस्तृतीयस्तु ततो दामोदरः स्मृतः ॥ ३ ॥
पञ्चमो वासुदेवाख्यः षष्ठः प्रद्युम्नसञ्ज्ञकः ॥
सप्तमो विष्णुरुक्तश्चाष्टमो माधव एव च ॥ ४ ॥
नवमोऽनन्तमूर्त्तिश्च दशमः पुरुषोत्तमः ॥
अधोक्षजस्ततः पश्चाद्द्वादशस्तु जनार्दनः ॥ ५ ॥
त्रयोदशस्तु गोविन्दश्चतुर्दशस्त्रिविक्रमः ॥
श्रीधरश्च पञ्चदशो हृषीकेशस्तु षोडशः ॥ ६ ॥
नृसिंहस्तु सप्तदशो विश्वयोनिस्ततः परम्॥
वामनश्च ततः प्रोक्त स्ततो नारायणः स्मृतः ॥ ७ ॥
पुण्डरीकाक्ष उक्तस्तु ह्युपेन्द्रश्च ततः परम् ॥
हरिस्त्रयोविंशतिमः कृष्णश्चान्त्य उदाहृतः ॥ ९ ॥
शालिग्रामस्य भेदांश्च मयोक्तास्तव शूद्रज ॥
मूर्तिभेदास्तथा प्रोक्ता एत एव महाधन ॥ ९ ॥
मूर्त्तयस्तिथिनान्म्यः स्युरेकादश्यः सदैव हि ॥
संवत्सरेण पूज्यन्ते चतुर्विम्श तिमूर्तयः ॥ ६.२४४.१० ॥
देवावताराश्च तथा चतुर्विंशतिसङ्ख्यकाः ॥
मासा मार्गशिराद्याश्च मासार्द्धाः पक्षसञ्ज्ञकाः ॥ ११ ॥
अधीशसहितान्नित्यं पूजयन्भक्तिमान्भवेत् ॥
चतुर्विंशतिसञ्ज्ञं च चतुष्टयमुदाहृतम् ॥ १२ ॥
एतच्चतुष्टयं नृणां धर्मकामार्थमोक्षदम् ॥
यः शृणोति नरो भक्त्तया पठेद्वापि समाहितः ॥ १३ ॥
भूतसर्गस्य गोप्ताऽसौ हरिस्तस्य प्रसीदति ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये शालिग्रामशिलासुमूर्त्त्युत्पत्तिवर्णनन्नाम चतुश्चत्वारिंशदुत्तरद्वि शततमोध्यायः ॥ २४४ ॥