२१९ काम्यश्राद्धवर्णनम्

॥ भर्तृयज्ञ उवाच ॥ ॥
काम्यानि तेऽधुना वच्मि श्राद्धानि पृथिवीपते ॥
यैः कृतैः समवाप्नोति मर्त्यो हृदयसंस्थितम् ॥१॥
यो नारीं वाञ्छते क्ष्माप रूपाढ्यां शीलमण्डनाम् ॥
इह लोके परे चैव तस्यार्हं प्रथमं दिनम् ॥ २॥
श्राद्धीयप्रेतपक्षस्य मुख्यभूतं च यन्नृप ॥
य इच्छेत्कन्यकां श्रेष्ठां सुशीलां रूपसंयु ताम् ॥
द्वितीयादिवसे तेन श्राद्धं कार्यं महीपते ॥ ३ ॥
यो वाञ्छति नरोऽश्वांश्च वायुवेगसमाञ्जवे ॥
तृतीयादिवसे श्राद्धं तेन कार्यं विपश्चिता ॥ ४ ॥
यो वाञ्छति पशून्मुख्यान्कुप्याकुप्यधनानि च ॥
चतुर्थ्यां तेन कर्तव्यं श्राद्धं पितृप्रतुष्टये ॥ ५ ॥
पुत्रान्वाञ्छति योऽभीष्टान्सुशीलान्वंशमण्डनान् ॥
पञ्चम्यां तेन कर्तव्यं सदा श्राद्धं नराधिप ॥ ६ ॥
यः श्राद्धं वंशजैर्दत्तं परलोकगतो नृप ॥
वाञ्छते तेन कर्तव्यं षष्ठ्यां श्राद्धं विपश्चिता ॥ ७ ॥
कृषिसिद्धिं य इच्छेत ग्रैष्मिकीं शारदीमपि ॥
सप्तम्यां युज्यते तस्य श्राद्धं कर्तुं न संशयः ॥ ८ ॥
य इच्छेत्पण्यसंसिद्धिं व्यवहारसमुद्भवाम् ॥
अष्टम्यां युज्यते श्राद्धं तस्य कर्तुं नराधिप ॥ ९ ॥
नवम्यां श्राद्धकृन्नाना चतुष्पदगणाल्लँभेत् ॥
सौभाग्यं रोगनाशं च तथा वल्लभसङ्गमम् ॥ ६.२१९.१० ॥
दशमीदिवसे श्राद्धं यः करोति समाहितः ॥
तस्य स्याद्वाञ्छिता सिद्धिः सर्वकृत्येषु सर्वदा ॥ ११ ॥
एकादश्यां धनं धान्यं श्राद्धकर्ता लभेन्नरः ॥
तथा भूपप्रसादं च यच्चान्यन्मनसि स्थितम् ॥ १२ ॥
यः करोति च द्वादश्यां श्राद्धं श्रद्धासमन्वितः ॥
पुत्रांस्तु प्रवरांश्चैव स पशून्वाञ्छिताल्लँभेत् ॥ ॥ १३ ॥
यो वाञ्छति नरो मुक्तिं पितृभिः सह चात्मनः ॥
असन्तानश्च यस्तस्य श्राद्धे प्रोक्ता त्रयोदशी ॥ १४ ॥
सन्तानकामो यः कुर्यात्तस्य वंशक्षयो भवेत् ॥
न सन्तानविवृद्धयै च तस्य प्रोक्ता त्रयोदशी ॥ १५ ॥
श्राद्धकर्मणि राजेन्द्र श्रुतिरेषा पुरातनी ॥
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ॥ १६ ॥
पायसं मधुसर्पिर्भ्यां वर्षासु च मघासु च ॥
मघात्रयोदशीयोगे पायसेन यजेत्पितॄन् ॥ १७ ॥
पितरस्तस्य नेच्छन्ति तद्वर्षं श्राद्धसत्क्रियाम् ॥
पुण्यातिशयभीतेन पिण्डदानं निराकृतम् ॥ १८ ॥
शक्रेण तद्दिने पुत्रमरणं दर्शितं भयम् ॥
येषां च शस्त्रमृत्युः स्यादपमृत्युरथापि वा ॥ १९ ॥
उपसर्गमृतानां च विषमृत्युमुपेयुषाम् ॥
वह्निना तु प्रदग्धानां जलमृत्यु मुपेयुषाम् ॥ ६.२१९.२० ॥
सर्पव्यालहतानां च शृङ्गैरुद्बन्धनैरपि ॥
एकोद्दिष्टं प्रकर्तव्यं चतुर्दश्यां नराधिप ॥ २१ ॥
तेषां तस्मिन्कृते तृप्तिस्ततस्तत्पक्षजा भवेत् ॥ २२ ॥
सर्वे कामाः पुरः प्रोक्ता युष्माकं ये मया नृप ॥
अमावास्यादिने श्राद्धात्तानाप्नोति न सम्श यः ॥ २३ ॥
एतत्ते सर्वमाख्यातं काम्यश्राद्धफलं नृप ॥
यच्छ्रुत्वा वाञ्छितान्कामान्सर्वानाप्नोति मानवः ॥ २४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे काम्यश्राद्धवर्णनन्नामैकोनविंशोत्तरद्विशततमोऽ ध्यायः ॥ २१९ ॥