२११ शङ्खतीर्थमाहात्म्यवर्णनम्

॥ विश्वामित्र उवाच ॥ ॥
राज्ञो दारिद्र्यदोषस्य कुष्ठव्याधेश्च कारणम् ॥
कथयित्वा पुनः प्राह नारदो मुनिसत्तमः ॥ १ ॥
॥ नारद उवाच ॥ ॥
एतत्ते सर्वमाख्यातं राजन्कुष्ठस्य कारणम् ॥
दारिद्र्यस्य च यत्सम्यग्ज्ञात्वा दिव्येन चक्षुषा ॥ २ ॥
अधुना सम्प्रवक्ष्यामि यथा तव पराभवः ॥
शत्रुभ्यः सम्प्रजातोऽत्र द्विजानामपमानतः ॥ ३ ॥
आनर्ताधिपतिर्योऽत्र कश्चिद्राज्येऽभिषिच्यते ॥
स पूर्वं गच्छति ग्रामं नागराणां प्रभक्तितः ॥ ४ ॥
त्वया तत्कल्पितं राजन्नैव दत्तं प्रमादतः ॥
पराभूता द्विजास्ते च याचमाना मुहुर्मुहुः ॥ ५ ॥
तथा कोपवशाद्यानि शासनानि द्विजन्मनाम् ॥
लोपितानि त्वयान्यानि पितृपैतामहानि च ॥ ६ ॥
तेन तेऽत्र पराभूतिः सञ्जाता शत्रुसम्भवा ॥
एवं ज्ञात्वा द्विजेद्राणां शास नानि प्रयच्छ भोः ॥ ७ ॥
गृहीतानि च यान्येव तेषां मोक्षं समाचर ॥
तच्छ्रुत्वा पार्थिवः सोऽथ शङ्खतीर्थे प्रभक्तितः ॥ ८ ॥
स्नात्वा विप्रान्समा हूय मध्यगेन समन्वितान् ॥
शङ्खादित्यस्य पुरतः प्रक्षाल्य चरणौ नृप ॥ ९ ॥
ददौ च शासनशतं प्रक्षाल्य चरणांस्ततः ॥
षड्विंशत्यधिकं राजा नागराणां महात्मनाम् ॥ ६.२११.१० ॥
एतस्मिन्नन्तरे तत्र शत्रवो ये च संस्थिताः ॥
सर्वे मृत्युं समापन्ना ब्राह्मणानां प्रसादतः ॥ ११ ॥
विश्वामित्र उवाच ॥ ॥
एतत्ते सर्वमाख्यातं शङ्खतीर्थसमुद्भवम् ॥
प्रभावं पार्थिवश्रेष्ठ किं भूयः श्रोतुमिच्छसि ॥ १२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शङ्खतीर्थमाहात्म्यवर्णनन्नामैकादशोत्तरद्विशततमोऽध्यायः ॥२११॥