१७२ सरस्वतीशापवृत्तान्तवर्णनम्

सूत उवाच ॥ ॥
ततःप्रभृति च्छिद्राणि विश्वामित्रो निरीक्षयन् ॥
वसिष्ठस्य वधार्थाय संस्थितो द्विजसत्तमाः ॥ १ ॥
आत्मशक्तिप्रभावेन मशकस्य यथा गजः ॥
अन्यस्मिन्नहनि प्राप्ते विश्वामित्रेण सा नदी ॥ २ ॥
समाहूता समायाता द्रुतं सा स्त्रीस्वरूपिणी ॥
अब्रवीत्प्राञ्जलिर्भूत्वा आदेशो दीयतां मम ॥
ब्रह्मर्षे येन कार्येण समाहूतास्मि साम्प्रतम् ॥ ३ ॥
॥ विश्वामित्र उवाच ॥ ॥
यदा निमज्जनं कुर्यात्तव तोये महानदि ॥
परमं वेगमास्थाय तदाऽऽनय ममान्तिकम् ॥ ४ ॥
पूर्णश्रोत्रं जले नैव व्याकुलाङ्गं व्यवस्थितम् ॥
निहन्मि येन शीघ्रं च नान्यच्छिद्रं प्रलक्षये ॥ ५ ॥
एवमुक्ता तदा तेन विश्वामित्रेण सा नदी ॥
वित्रस्ता भयसंयुक्ता शापाद्वाक्यमुवाच सा ॥ ६ ॥
नाहं द्रोहं करिष्यामि वसिष्ठस्य महात्मनः ॥
ब्रह्मर्षे न च ते युक्तं कर्तुं वै ब्रह्मणो वधम् ॥ ७ ॥
यदि त्वं ब्रह्मणा प्रोक्तो ब्रह्मर्षिः स्वयमेव तु ॥
कामान्नायं वसिष्ठस्तु तस्मात्कोपं परित्यज ॥ ८ ॥
मनसापि वधं यस्तु ब्राह्मणस्य विचिन्तयेत् ॥
तप्तकृच्छ्रेण मुच्येत मनुः स्वायम्भुवोऽब्रवीत् ॥ ९ ॥
वाचया प्रवदेद्यस्तु ब्राह्मणस्य वधं नरः ॥
चान्द्रायणेन शुद्धिः स्यात्तस्य देवोऽब्रवीदिदम् ॥ ६.१७२.१० ॥
तस्मान्नाहं करिष्यामि तव वाक्यं कथञ्चन ॥
वसिष्ठार्थं तु यत्प्रोक्तं कुरु यत्तव रोचते ॥ ११ ॥
तच्छ्रुत्वा कुपितस्तस्या विश्वामित्रो द्विजोत्तमाः ॥
शशाप तां नदीं श्रेष्ठां यत्तद्वक्ष्यामि श्रूयताम् ॥ १२ ॥
यस्मात्पापे वचो मह्यं न कृतं कुनदि त्वया ॥
तस्माद्रक्तप्रवाहस्ते जलजोऽयं भविष्यति ॥ १३ ॥
एवमुक्त्वा करात्तोयं सप्तवाराभिमन्त्रितम् ॥
चिक्षेपाथ जले तस्याः क्रोधसंरक्तलोचनः ॥ १४ ॥
ततश्च तत्क्षणाज्जातं तत्तोयं रुधिरं द्विजाः ॥
सारस्वतं सुपुण्यं च यदासीच्छङ्खसन्निभम् ॥ १५ ॥
एतस्मिन्नन्तरे प्राप्ता भूतप्रेतनिशाचराः ॥
पीत्वापीत्वा प्रनृत्यन्ति गायन्ति च हसन्ति च ॥ १६ ॥
ये तत्र तापसाः केचित्तटे तस्या व्यवस्थिताः ॥
ते सर्वेऽपि च तां त्यक्ता दूरदेशं समाश्रिताः ॥ १७ ॥
बहिर्वासाश्च ये तत्र नागराः समवस्थिताः ॥
चण्डशर्म प्रभृतयस्तेऽपि याताः सुदूरतः ॥ १८ ॥
वसिष्ठोऽपि मुनिश्रेष्ठो जगामार्बुदपर्वतम् ॥
विश्वामित्रस्तु विप्रर्षिश्चमत्कारपुरं गतः ॥ १९ ॥
हाटकेश्वरजे क्षेत्रे यत्स्थितं विप्रसङ्कुलम् ॥
तत्राश्रमपदं कृत्वा तपस्तेपे सुदारुणम् ॥६.१७२.२०॥।
येन सृष्टिक्षमो जातः स्पर्धते ब्रह्मणा सह ॥
एतद्वः सर्वमाख्यातं यथा सारस्वतं जलम् ॥ २१ ॥
रुधिरत्वमनुप्राप्तं विश्वामित्रस्य शापतः ॥
चण्डशर्मादयो विप्रा यथा देशान्तरं गताः ॥२२॥
इति श्रीस्कान्दे महापुराण काशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सरस्वतीशापवृत्तान्तवर्णनन्नाम द्विसप्तत्युत्तरशततमोऽध्यायः ॥१७२॥ छ ॥ ॥