॥ सूत उवाच ॥ ॥
अथ प्राप्ते दिनाधीशे तुलायां द्विजसत्तमाः ॥
प्रेता लिङ्गोद्भवां भूमिं पूरयामासुरेव हि ॥ १ ॥
यत्किञ्चित्तत्र संस्थं तु आद्यतीर्थं सुरालयम् ॥
तत्सर्वं व्यन्तरैस्तैश्च पांसुभिः परिपूरितम् ॥ २ ॥
ततः क्षेमं समुत्पन्नं क्षेत्रे तत्र द्विजोत्तमाः ॥
अन्येषामपि लोकानां लिङ्गैस्तैर्लुप्तिमागतैः ॥ ३ ॥
कस्यचित्त्वथ कालस्य बृहदश्वो महीपतिः ॥
शाल्वदेशात्समायातः कस्मिश्चिद्युगपर्यये ॥ ४ ॥
स दृष्ट्वा विपुलां भूमिं प्रासादैः परिवर्जिताम् ॥
प्रासादार्थं मतिं चक्रे तत्र क्षेत्रे द्विजोत्तमाः ॥ ५ ॥
शिल्पिनश्च समाहूयानेकांस्तत्र सहस्रशः ॥
शोधयामास तां भूमिमधस्ताद्बहुविस्तृताम् ॥ ६ ॥
भूमौ निखन्यमानायां ततो लिङ्गानि भूरिशः ॥
चतुर्वक्त्राणि तान्येव यान्ति दृष्टेश्च गोचरम् ॥ ७ ॥
ततः स पार्थिवस्तैश्च लिङ्गैर्दृष्ट्वा वृतां भुवम् ॥
तत्क्षणान्मृत्युमापन्नः शिल्पिभिश्च समन्वितः ॥ ८ ॥
ततःप्रभृति नो तत्र कश्चिन्मर्त्यो महीतले ॥
प्रासादं कुरुते भीत्या तडागं कूपमेव च ॥ ९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये राक्षसलिङ्गच्छेदनन्नाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ ॥ ॥