॥ सूत उवाच ॥ ॥
एवं तस्मिन्गते भूपे ह्यजापाले रसातलम् ॥
तत्पुत्रश्चाभवद्राजा मन्त्रिभिस्तु पुरस्कृतः ॥ १ ॥
यो नित्यमगमत्स्वर्गे वासवं रमते सदा ॥
शनैश्चरो जितो येन रोहिणीं परिभेदयन् ॥ २ ॥
गृहे यस्य स्वयं विष्णुर्भूत्वा चैव चतुर्विधः ॥
रावणस्य विनाशार्थं जन्म चक्रे प्रहर्षितः ॥ ३ ॥
तेनागत्यात्र सत्क्षेत्रे तोषितो मधुसूदनः ॥
प्रासादं शोभनं कृत्वा ततश्चैव प्रतिष्ठितः ॥ ४ ॥
तस्यापि विश्रुता वापी स्वयं तेन विनिर्मिता ॥
राजवापीति लोकेऽस्मिन्विख्यातिं परमां गता ॥ ५ ॥
तस्यां यः कुरुते श्राद्धं सम्प्राप्ते पञ्चमीदिने ॥
प्रेतपक्षे विशेषेण स नरः स्यात्सतां प्रियः ॥ ६ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं तेन जितः सौरी रोहिणीशकटं च यत् ॥
भिन्दानस्तोषितस्तेन कथं नारायणो वद ॥ ७ ॥
॥ । सूत उवाच ॥ ॥
तस्मिञ्छासति धर्मज्ञे स्वधर्मेण वसुन्धराम्॥
अतिसौख्यान्वितो लोकः सर्वदैव व्यजायत ॥ ८ ॥
बहुक्षीरप्रदा गावः सस्यानि गुणवन्ति च ॥
कामवर्षी च पर्जन्यो यथर्त्तुफलिता द्रुमाः ॥ ९ ॥
कस्यचित्त्वथ कालस्य दैवज्ञैस्तस्य भूपतेः ॥
कथितं रोहिणीभेदं रविपुत्रः करिष्यति ॥ ६.९६.१० ॥
तस्यानन्तरमेवाशु दुर्भिक्षं सम्भविष्यति ॥
अनावृष्टिश्च भविता रौद्रा द्वादश वार्षिकी ॥
यया सम्पत्स्यते सर्वं भूतलं गतमानवम् ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा स राजा कुपितोऽभ्यगात् ॥
शनैश्चरं समुद्दिश्य विमानमधिरुह्य च ॥ १२ ॥
तस्य तुष्टेन सन्दत्तं विमानं कामगं पुरा ॥
शक्रेण तत्र सन्तिष्ठञ्छनैश्चरमुपाद्रवत् ॥ १३ ॥
ततः सूर्यपथं मुक्त्वा ततश्चन्द्रस्य पार्थिवः ॥
नक्षत्रसरणिं प्राप्य सज्यं कृत्वा महद्धनुः ॥ १४
तत्र बाणं समारोप्य शनैश्चरमुपाद्रवत् ॥
प्रोवाच पुरतः स्थित्वा सूर्यपुत्रमधोमुखम् ॥ १५ ॥
त्यजैनं रोहिणीमार्गं साम्प्रतं त्वं शनैश्चर ॥
मद्वाक्यादन्यथाऽहं त्वां नयिष्यामि यमक्षयम् ॥ १६ ॥
एतेन निशिताग्रेग शरेणा नतपर्वणा ॥
दिव्यास्त्रमन्त्रयुक्तेन सत्यमेतद्ब्रवीम्यहम् ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा तादृग्रौद्रतमं महत् ॥
मन्दो विस्मयमापन्नस्ततश्चेदमभाषत ॥ ॥ १८ ॥
कस्त्वं ब्रूहि महाभाग मम मार्गं रुणत्सि यः ॥
अगम्यं केनचिल्लोके सर्वैरपि सुरासुरैः ॥ १९ ॥
राजोवाच ॥ ॥
अहं दशरथो नाम सूर्यवंशोद्भवो नृपः ॥
अजस्य तनयः प्राप्तः कामं वारयितुं क्रुधा ॥ ६.९६.२० ॥
॥ मन्द उवाच ॥ ॥
न त्वया सह सम्बन्धः कश्चिदस्ति महीपते ॥
मम यत्त्वं प्रकोपाढ्यो मन्मार्गं हन्तुमिच्छसि ॥ २१ ॥
॥ राजोवाच ॥ ॥
रोहिणीसम्भवं त्वं हि शकटं भेदयिष्यसि ॥
साम्प्रतं मम दैवज्ञैर्वाक्यमेतदुदाहृतम् ॥ २२ ॥
तस्मिन्मन्द त्वया भिन्ने न वर्षति शतक्रतुः ॥
एतद्वदति दैवज्ञा ज्योतिःशास्त्रविचक्षणाः ॥ २३ ॥
जाते वृष्टिनिरोधेऽथ जायन्तेऽन्नानि न क्षितौ ॥
अन्नाभावात्क्षयं यान्ति ततो भूभितले जनाः ॥ २४ ॥
जनोच्छेदे ततो जाते अग्निष्टोमादिकाः क्रियाः ॥
न भवन्ति धरा पृष्ठे ततः स्यादेव सङ्क्षयः॥ २५ ॥
एतस्मात्कारणाद्रुद्धो मार्गस्ते सूर्यसम्भव ॥
रोहिणीं गन्तुकामस्य सत्यमेतन्मयोदितम् ॥२६॥
॥ शनिरुवाच ॥ ॥
गच्छ पुत्र निजं गेहं ममापि त्वं च रोचसे ॥
तुष्टोऽहं तव वीर्येण न त्वन्येन महीपते॥२७॥
न केनचित्कृतं कर्म यदेतद्भवता कृतम् ॥
न करिष्यति चैवान्यो देवो वा मानवोऽथ वा ॥ २८ ॥
नाहं पश्यामि भूपाल कथञ्चिदपि तूर्ध्वतः॥
यतो दृष्टिविनिर्दग्धं भस्मसाज्जायतेऽखिलम् ॥ २९ ॥
जातमात्रेण बालेन मया पादौ निरीक्षितौ ॥
तातस्य सहसा दग्धौ ततोऽहं वारितोंऽबया ॥ ६.९६.३० ॥
न त्वया पुत्र द्रष्टव्यं किञ्चिदेव कथञ्चन ॥
प्रमाणं यदि ते धर्मो मातृवाक्यसमुद्भवः ॥ ३१ ॥
तस्मात्त्वया महत्कर्म कृतमीदृक्सुदुष्करम् ॥
प्रजानां पार्थिवश्रेष्ठ त्यक्त्वा दूराद्भयं मम ॥ ३२ ॥
तस्मा त्तव कृते नाहं भेदयिष्यामि रोहिणीम् ॥
कथञ्चिदपि भूपाल युगान्तररशतेष्वपि ॥ ३३ ॥
वरं वरय चास्माकं तस्मादद्य भविष्यति ॥
हृतत्स्थितं दुर्लभं भूप सर्वेषामिह देहिनाम् ॥ ३४ ॥
॥ राजोवाच ॥ ॥
तव यो वासरे प्राप्ते तैलाभ्यङ्गं करोति वै ॥
तस्याऽन्यदिवसं यावत्पीडा कार्या न च त्वया ॥ ३५ ॥
तिलदानं करोत्येवं लोहदानं च यस्तव ॥
करोति दिवसे शक्त्या यावद्वर्षं त्वया हि सः ॥ ३६ ॥
रक्षणीयः सुकृच्छ्रेषु सङ्कटेषु सदैव हि ॥
त्वयि गोचरपीडायां संस्थिते चार्कसम्भव ॥ ३७ ॥
यः कुर्याच्छान्तिकं सम्यक्तिलहोमं च भक्तितः ॥
वासरे तव सम्प्राप्ते समिद्भिश्च तथाऽक्षतैः ॥ ३८ ॥
तस्य सार्धानि वर्षाणि सप्त कार्या प्रयत्नतः ॥
त्वया रक्षा महाभाग वरं चेन्मम यच्छसि ॥ ३९ ॥
॥ सूत उवाच ॥ ॥
एवमित्येव सम्प्रोच्य विरराम ततः परम् ॥
शनैश्चरो महीपालवचनाद्द्विजसत्तमाः ॥ ६.९६.४० ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽहं सुविस्तरात् ॥
भवद्भिः सूर्यपुत्रस्य राज्ञा दशरथेन हि ॥
संवादं रोहिणीभेदे सञ्जातं समुपस्थिते ॥ ४१ ॥
यश्चैतत्पठते नित्यं शृणुयाद्यो विशेषतः ॥
शनैश्चरकृता पीडा तस्य नाशं प्रगच्छति ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दशरथशनैश्चरसंवादवर्णनन्नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ ॥ छ ॥