०७५ भूमिमाहात्म्यवर्णनम्

॥ सूत उवाच ॥ ॥
पुरा कल्पे भगवता एतत्क्षेत्रमनुत्तमम् ॥
रुद्रेण ब्रह्मणे दत्तं तुष्टेन द्विजसत्तमाः ॥ १ ॥
यदा तु स्थापितं लिङ्गं हाटकेश्वरसञ्ज्ञितम् ॥
देवैः प्रीतेन रुद्रेण प्रदत्तं ब्रह्मणे पुनः ॥ २ ॥
एतत्क्षेत्रं तदा दत्तं शम्भुना षण्मुखस्य ह ॥
रक्षणार्थं हि विप्राणां कलिकालादिदोषतः ॥३॥
ब्रह्मणा प्रार्थितेनेदं स्वयमादिममुत्तमम् ॥
पित्रादिष्टस्तु गाङ्गेयस्तत्र वासमथाकरोत् ॥ ४ ॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ॥
सप्तजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ॥५॥
महासेनस्य देवस्य प्रासादं सुमनोहरम्॥
उच्चैः स्थितं सर्वलोके पातुकाममिवाम्बरम् ॥ ६ ॥
तच्छ्रुत्वा विबुधाः सर्वे कौतुकादेत्य सत्वरम् ॥
वीक्षाञ्चक्रुस्ततो गत्वा दृष्ट्वा मेध्यतमं पुरम् ॥ ७ ॥
प्रासादस्योत्तरे देशे प्राच्ये देशे तथा द्विजाः ॥
यज्ञक्रियासमारम्भांश्चकुर्विप्रैर्यथोदितान् ॥८॥
इष्ट्वा च विबुधाः सर्वे दत्त्वा तेभ्यश्च दक्षिणाम् ॥
जग्मुस्त्रिविष्टपं हृष्टा लब्ध्वा तत्स्थानजं फलम् ॥ ९ ॥
ततस्तु देवयजनन्नाम तस्य बभूव ह ॥
यदन्यत्र शतं कृत्वा क्रतूनां फलमाप्नुयात् ॥
तदत्रैकेन लभते क्रतुना दक्षिणावता ॥ ६.७५.१० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये यज्ञ भूमिमाहात्म्यवर्णनन्नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ ॥ अ ॥