०४४ विश्वामित्रेश्वरमाहात्म्यवर्णनम्

॥ मेनकोवाच ॥ ॥
नूनं हि कामधर्मे त्वं न प्रवीणो महाद्युते ॥
तेन मामीदृशैर्वाक्यैर्निवारयसि रागिणीम् ॥ १ ॥
॥ सूत उवाच ॥ ॥
एवमुक्तस्ततो भूयो विश्वामित्रोऽब्रवीदिदम् ॥
कोपेन महता युक्तो निःस्पृहस्तत्परिग्रहे ॥ २ ॥
॥ विश्वामित्र उवाच ॥ ॥
त्वं जीव गच्छ वा मृत्युं नाहं कर्तास्मि ते वचः ॥
व्रतनाशात्तु यत्पापमधिकं स्त्रीवधाद्भवेत् ॥ ३ ॥
प्रायश्चित्तं बुधैरुक्तं व्रतिनां स्त्रीवधे कृते ॥
न सङ्गात्तु पुनस्तासां तस्मात्त्वं गन्तुमर्हसि ॥ ४ ॥
न केवलं व्रतोपेताः स्त्रीसङ्गात्पापमाप्नुयुः ॥
व्रतबाह्या अपि नराः सक्ताः स्त्रीषु पतन्त्यधः ॥ ५ ॥
संसारभ्रमणं नारी प्रथमेपि समागमे ॥
वह्निप्रदक्षिणा व्याजन्यायेनैव प्रदर्शयेत् ॥ ६ ॥
तस्मात्स्त्रीभिः समं प्राज्ञः सम्भाषामपि वर्जयेत् ॥
आस्तां तावत्समासङ्गं य इच्छेच्छ्रेय आत्मनः ॥७ ॥
अङ्गार सदृशा नारी घृतकुम्भसमः पुमान् ॥
अस्पर्शाद्दृढतामेति तत्सम्पर्काद्विलीयते ॥ ८ ॥
स्त्रियो मूलमनर्थानां सर्वेषां प्राणिनां भुवि ॥
तस्मात्त्याज्या सुदूरेण ताः स्वर्गस्य निरोधकाः ॥ ९ ॥
कुलीना वित्तवत्यश्च नाथवत्योऽपि योषितः ॥
एकस्मिन्नन्तरे रागं कुर्वन्त्येताः सुचञ्चलाः ॥६.४४.१०॥
न स्त्रीभ्यः किञ्चिदन्यद्धि पापाय विद्यते भुवि ॥
यासां सङ्गसमासाद्य संसारे भ्रमते जनः ॥॥॥
नीचोऽपि कुरुते सेवां यस्तासां विजनेष्वथ ॥
विरूपं वापि नीचं वा तं सेवन्ते हि ताः स्त्रियः ॥ १२ ॥
अनर्थत्वान्मनुष्याणां भयात्परिजनस्य च ॥
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ १३ ॥
॥सूत उवाच ॥ ॥
एवं सम्भर्त्सिता तेन मेनका कोपसंयुता ॥
शशाप तं मुनिश्रेष्ठं स्फुरमाणोष्ठसम्पुटा ॥ १४ ॥
यस्मात्त्वया परित्यक्ता सकामाहं सुदुर्मते॥
त्यजता कामजं धर्मं तस्माच्छापं गृहाण मे ॥ १५ ॥
अद्यैव भव दुबुर्द्धे वलीपलितसंयुतः ॥
जराजर्ज्जरिताङ्गश्च तुच्छदृष्टिर्विरङ्गितः ॥ १६ ॥
॥ सूत उवाच ॥ ॥
उक्तमात्रे तु वचने तत्क्षणान्मुनिसत्तमः ॥
बभूव तादृशः सद्यस्तया यादृक्प्रकीर्तितः ॥ १७ ॥
ततः कोपपरीतात्मा सोऽपि तां शप्तुमुद्यतः ॥
कमण्डलोर्जलं गृह्य सन्तापाद्रक्तलोचनः ॥ १८ ॥
निर्दोषोऽपि त्वया यस्माच्छप्तोऽहं गणिकाधमे ॥
तस्माद्भव त्वमप्याशु जराजर्जरिताङ्गिका ॥ १९ ॥
सापि तद्वचनात्सद्यस्तादृग्रूपा व्यजायत ॥
यादृशोऽसौ मुनिश्रेष्ठो वलीपलितगात्रभृत् ॥ ६.४४.२० ॥
अथ तादृक्स्वरूपेण स्नाता तत्र जला शये ॥
भूयोऽपि तादृशी जाता यादृशी संस्थिता पुरा ॥ २१ ॥
तद्दृष्ट्वा परमाश्चर्यमतीव त्वरयान्वितः॥
सोऽपि तत्राकरोत्स्नानं सञ्जातश्च यथा पुरा ॥ २२ ॥
ततस्तौ तीर्थमाहात्म्याद्रूपौदार्यगुणान्वितौ ॥
मिथ आमन्त्र्य संहृष्टौ गतौ देशं यथेप्सितम् ॥ २३ ॥
एवं तीर्थस्य माहात्म्यं विज्ञाय भगवानृषिः ॥
लिङ्गं संस्थापयामास देवदेवस्य शूलिनः ॥ २४ ॥
तपश्चकार सुमहत्तस्मिंस्तीर्थवरे तदा ॥
कुशस्तम्बेन कृतवांस्तत्सरो विपुलं विभुः ॥ ॥ २५ ॥
तत्र स्नात्वा नरो यस्तु पूजयेल्लिङ्गमुत्तमम् ॥
विश्वामित्रेश्वरं ख्यातं स गच्छेच्छिवमन्दिरम् ॥ २६ ॥
अद्यापि दृश्यते तत्र गङ्गोदकसमं जलम् ॥
सर्वपापहरं पुण्यं सर्वकामप्रदायकम् ॥ २७ ॥
यस्तत्र कुरुते स्नानं श्रद्धापूतेन चेतसा ॥
स देवलोकमासाद्य पितृभिः सह मोदते ॥२८॥
ततःप्रभृति तत्तीर्थं ख्यातिं प्राप्तं महीतले ॥
पाताले स्वर्गलोके च रूपौदार्यप्रदं नृणाम् ॥ २९ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥
विश्वामित्रेश माहात्म्यं सर्वपातकनाशनम् ॥ ६.४४.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेवरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्ति विश्वामित्रेश्वरमाहात्म्यवर्णनन्नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ ॥