०३७ वर्णनम्

॥ सूत उवाच ॥
अथापश्यत्स विप्राणां वृन्दं वृन्दारकोपमम्॥
सन्निविष्टं धरापृष्ठे लीलाभाजि द्विजोत्तमाः॥॥।
एके वेदविदस्तत्र वेदव्याख्यानतत्पराः॥
परस्परं सुसङ्क्रुद्धा विवदन्ति जिगीषवः ॥ २ ॥
यज्ञविद्याविदोऽन्येऽपि यज्ञाख्यानपरायणाः ॥
तत्र विप्राः प्रदृश्यन्ते शतशो ब्रह्मवादिनः ॥ ३ ॥
अन्ये ब्राह्मणशार्दूला वेदाङ्गेषु विचक्षणाः ॥
प्रवदन्ति च सन्देहान्वृन्दानामग्रतः स्थिताः ॥ ४ ॥
वेदाभ्यासपराश्चान्ये तारनादेन सर्वशः ॥
नादयन्तो दिशां चक्रं तत्र सम्यग्द्विजोत्तमाः ॥ ५ ॥
अन्ये कौतूहलाविष्टाः सञ्चरान्विषमान्मिथः ॥
पप्रच्छुर्जहसुश्चान्ये ज्ञात्वा मार्गप्रवर्तिनम् ॥ ६ ॥
स्मृतिवादपराश्चान्ये तथान्ये श्रुतिपाठकाः ॥
सन्देहान्स्मृतिजानन्ये पृच्छन्ति च परस्परम् ॥ ७ ॥
कीर्तयन्ति तथा चान्ये पुराणं ब्राह्मणोत्तमाः ॥
वृद्धानां पुरतस्तत्र सभामध्ये व्यवस्थिताः ॥ ८ ॥
अथ तान्स मुनिर्दृष्ट्वा ब्राह्मणान्संशितव्रतान् ॥
अभिवाद्य ततः प्राह सादरं विनयान्वितः ॥ ९ ॥
मम बुद्धिः समुत्पन्ना शम्भोरायतनं प्रति ॥
कर्तुं ब्राह्मणशार्दूलास्तस्मात्स्थानं प्रदर्श्यताम् ॥ ६.३७.१० ॥
तवाहं देवदेवस्य शम्भोः प्रासादमुत्तमम् ॥
विधायाराधयिष्यामि तमेव वृषभध्वजम् ॥ ११ ॥
स एवं जल्पमानोऽपि मुहुर्मुहुरतन्द्रितः ॥
न तेषामुत्तरं लेभे शुभं वा यदि वाशुभम् ॥ १२ ॥
ततः कोपपरीतात्मा समुनिस्तान्द्विजोत्तमान् ॥
शशाप तारशब्देन यथा शृण्वन्ति कृत्स्नशः ॥ १३ ॥
॥ दुर्वासा उवाच ॥ ॥
विद्यामदो धनमदस्तृतीयोऽभिजनोद्भवः ॥
एते मदावलिप्तानामेत एव सतां दमाः ॥ १४ ॥
तत्र येऽपि हि युष्माकं मदा एव व्यवस्थिताः ॥
यतस्ततोऽन्वयेऽप्येवं भविष्यति मदान्विताः ॥ १५ ॥
सदा सौहृदनिर्मुक्ताः पितरोऽपि सुतैः सह ॥
भविष्यन्ति पुरे ह्यस्मिन्किं पुनर्बान्धवादयः ॥ १६ ॥
एवमुक्त्वा स विप्रेन्द्रो निवृत्तस्तदनन्तरम् ॥
अपमानं परं प्राप्य ब्राह्मणानां द्विजोत्तमाः ॥ १७ ॥
अथ तन्मध्यगो विप्र आसीद्वृद्धतमः सुधीः ॥
सुशील इति विख्यातो वेदवेदाङ्गपारगः ॥ १८ ॥
स दृष्ट्वा तं मुनिं क्रुद्धं गच्छन्तमपमानितम् ॥
सत्वरं प्रययौ पृष्ठे तिष्ठ तिष्ठेति च ब्रुवन्॥ १९ ॥
अथासाद्य गतं दूरं प्रणिपत्य मुनिं च सः ॥
प्रोवाच क्षम्यतां विप्र विप्राणां वचनान्मम ॥ ६.३७.२० ॥
एतैः स्वाध्यायसम्पन्नैर्न श्रुतं वचनं तव ॥
नोत्तरं तेन सन्दत्तं सत्यमेतद्ब्रवीम्यहम् ॥ २१ ॥
तस्माद्भूमिर्मया दत्ता शम्भुहर्म्यकृते तव ॥
अस्मिन्स्थाने द्विजश्रेष्ठ प्रासादं कर्तुमर्हसि ॥ २२ ॥
तस्य तद्वचनं श्रुत्वा दुर्वासा हर्षसंयुतः ॥
क्षितिदानोद्भवां चक्रे स्वस्ति ब्राह्मणसत्तमाः ॥
प्रासादं निर्ममे पश्चात्तस्य वाक्ये व्यवस्थितः ॥ २३ ॥
अथ ते ब्राह्मणा ज्ञात्वा सुशीलेन वसुन्धरा ॥
देवतायतनार्थाय दत्ता तस्मै तपस्विने ॥ २४ ॥
सर्वे कोपसमायुक्ताः सुशीलं प्रति ते द्विजाः ॥ २५ ॥
ततः प्रोचुः समासाद्य येन शप्ता दुरात्मना ॥
वयं तस्मै त्वया दत्ता प्रासादार्थं वसुन्धरा ॥ २६ ॥
तस्मात्त्वमपि चास्माकं बाह्य एव भविष्यसि ॥
सुशीलोऽपि हि दुःशीलो नाम्ना सङ्कीर्त्यसे बुधैः ॥ २७ ॥
एषोऽपि तापसो दुष्टो यः करोति शिवालयम् ॥।
नैव तस्य भवेत्सिद्धिश्चापि वर्षशतैरपि ॥ २८ ॥
तथा कीर्तिकृतां लोके कीर्तनं क्रियते नरैः ॥
ततः सम्पश्यतां चास्य कीर्तिर्नास्य तु दुर्मतेः ॥ ॥ २९ ॥
एष दुःशीलसञ्ज्ञो वै तव नाम्ना भविष्यति ॥
प्रासादो नाममात्रेण न सम्पूर्णः कदाचन ॥ ६.३७.३० ॥
यस्मात्सौहृदनिर्मुक्ताः कृतास्तेन वयं द्विजाः ॥
मदैस्त्रिभिः समायुक्ताः सर्वान्वयसमन्विताः ॥ ३१ ॥
तस्मादेषोऽपि पापात्मा भविष्यति स कोपभाक् ॥
तप्तं तप्तं तपो येन सम्प्रयास्यति सङ्क्षयम्॥ ३२ ॥
एवमुक्त्वाथ ते विप्राः कोपसंरक्तलोचनाः ॥
दुःशीलं सम्परित्यज्य प्रविष्टाः स्वपुरे ततः ॥ ३३ ॥
दुःशीलोऽपि बहिश्चक्रे गृहं तस्य पुरस्य च ॥
देवशर्मा यथापूर्वं सन्त्यक्तः पुरवासिभिः ॥ ३४ ॥
तस्यान्वयेऽपि ये जातास्ते बाह्याः सम्प्रकीर्तिताः ॥
बाह्याः क्रियासु सर्वासु सर्वेषां पुरवासिनाम् ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
एवं तेषु द्विजेन्द्रेषु शापं दत्त्वा गतेषु च ॥
दुर्वासाः प्राह दुःशीलं कोपसंरक्तलो चनः ॥ ३६ ॥
मम सिद्धिं गता मन्त्राः समर्थाः शत्रुसङ्क्षये ॥
आथर्वणास्तथा चान्ये वेदत्रयसमुद्भवाः ॥ ३७ ॥
तस्मादेतत्पुरं कृत्स्नं पशुपक्षि समन्वितम् ॥
नाशमद्य नयिष्यामि यथा शत्रोर्हि दुष्टकः ॥ ३८ ॥
॥ दुःशील उवाच ॥ ॥
नैतद्युक्तं नरश्रेष्ठ तव कर्तुं कथञ्चन ॥।
ब्राह्मणानां कृते कर्म ब्राह्मणस्य विशेषतः ॥ ३९ ॥
निघ्नन्तो वा शपन्तो वा वदन्तो वापि निष्ठुरम् ॥
पूजनीयाः सदा विप्रा दिव्याल्ँलोकानभीप्सुभिः ॥ ६.३७.४० ॥
ब्राह्मणैर्निर्जितैर्मेने य आत्मानं जयान्वितम् ॥
तामिस्रादिषु घोरेषु नरकेषु स पच्यते ॥ ४१ ॥
आत्मनश्च पराभूतिं तस्माद्विप्रात्सहेत वै ॥
य इच्छेद्वसतिं स्वर्गे शाश्वतीं द्विजसत्तम ॥ ४२ ॥
एतेषां ब्राह्मणेन्द्राणां क्षेत्रे सिद्धिं समागताः ॥
मन्त्रास्ते तत्कथं नाशं त्वमेतेषां करिष्यसि ॥ ४३ ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नवते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ॥ ४४ ॥
तस्मात्कोपो न कर्तव्यः क्षेत्रे चात्र व्यवस्थितैः ॥
क्षमां कुरु मुनिश्रेष्ठ कृपां कृत्वा ममोपरि ॥४५ ॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय तत्र कृत्वावसत्तपः ॥
प्राप्तश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि ॥ ४६ ॥
दुःशीलाख्यः क्षितौ सोऽपि प्रासादः ख्याति मागतः ॥
यस्य सन्दर्शनादेव नरः पापात्प्रमुच्यते ॥ ४७ ॥
तस्य मध्यगतं लिङ्गं शुक्लाष्टम्यां सदा नरः ॥
यः पश्यति क्षणं ध्यात्वा नरकं स न पश्यति ॥ ४८ ॥
इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुःशीलाख्यप्रासादोत्पत्ति वर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥ ॥ छ ॥