॥ ॥ सूत उवाच ॥ ॥
तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः ॥
रक्तशृङ्गस्य सान्निध्यं सेवनीयं विचक्षणैः ॥ १ ॥
किं दानैः किं क्रियाकाण्डैः किं यज्ञैः किं व्रतैरपि ॥
तत्क्षेत्रं सेवयेद्भक्त्या हाटकेश्वरसम्भवम् ॥२॥
अग्निष्टोमादयो यज्ञाः सर्वे सम्पूर्णदक्षिणाः ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हन्ति षोडशीम् ॥ ३ ॥
चान्द्रायणानि कृच्छ्राणि तथा सान्तपनानि च ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हन्ति षोडशीम्॥४॥
प्रभासाद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥
तस्य क्षेत्रस्य पुरतः कलां नार्हन्ति षोडशीम्॥५॥
भूमिदानानि सर्वाणि धर्माः सर्वे दयादिकाः॥
तस्य क्षेत्रस्य पुरतः कलां नार्हन्ति षोडशीम्॥६॥
तत्र राजर्षयः पूर्वं प्रभूताः सिद्धिमागताः ॥
पशवः पक्षिणः सर्पाः सिंहव्याघ्रा मृगादयः ॥७॥
तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम् ॥
यस्तत्र व्रतहीनोऽपि कृषिकर्मरतोऽपि वा ॥९॥
निवासं कुरुते विप्रा मृतस्तत्र दिवं व्रजेत् ॥
किंवा च बहुनोक्तेन भूयोभूयो द्विजोत्तमाः ॥९॥
श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य सम्भवम् ॥
पुनन्ति क्षेत्रतीर्थानि संवासादिह मानवान् ॥ ६.१६.१० ॥
हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि ॥
किं पुनर्दर्शनाद्विप्राः स्पर्शनाच्च विशेषतः ॥ ११ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसान्निध्यसेवनफलश्रैष्ठ्यवर्णनन्नाम षोडशोऽ ध्यायः॥१६॥ ॥॥