॥ श्रीमहादेव उवाच ॥ ॥
उत्तरेश्वरमाहात्म्यमशेषपापनाशनम्॥
जन्ममृत्युजराव्याधिस्फोटनं शृणु पार्वति ॥ १ ॥
अयोध्यायामतिख्यातकुलोत्पन्नश्च पार्थिवः ॥
सुधीः परीक्षिन्नामा च मृगयामगमत्स च ॥ २ ॥
मृगमनुससाराथ मृगो दूरमपासरत् ॥ ३ ॥
तदाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतः कस्मिंश्चिद्वनोद्देशे नीलवनमपश्यच्चाविवेश ॥ ४ ॥
तस्य वनखण्डस्य दक्षिणभागे सरो दृष्ट्वा साश्व एव व्यगाहत ॥ ५ ॥
अथाश्वस्थः सन्मृणालमश्वस्याग्रतो निक्षिप्य पुष्करिणीं समुपाविशत् ॥ ६ ॥
शयितस्ततः शयानो गीतमशृणोत् ॥ ७ ॥
स श्रुत्वाचिन्तयन्नेह मनुष्यगतिं प्रपश्यामि ॥ ८ ॥
कस्य खल्वयं गीतशब्द इत्यवलोकयामास ॥ ९ ॥
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाणि विचिन्वन्तीं चाथ राजा समीपे पर्यक्रामत् ॥ ५.२.८४.१० ॥
तामब्रवीद्राजा कस्यासि त्वं कन्या परमरूपदर्शनीया पुष्पाणि विचिन्वती ॥ ११ ॥
साथ राजसमीपे गत्वेति प्रोवाच कन्यास्मीति ॥ १२ ॥ ॥
॥ राजोवाच ॥ ॥
अर्थी तवास्मीति ॥ १३ ॥
अथोवाच कन्या ॥
समयेनाहं त्वया शक्योपालब्धुं नान्यथेति ॥ १४ ॥
तां राजा समपृच्छत्कस्ते समय इति ॥ १५ ॥
ततः कन्या तमुवाच नोदकं दर्शयितव्यमिति ॥ १६ ॥
राजा बाढमित्युक्ता तां समागम्य तया सहास्ते ॥ १७ ॥
तत्रैवासन्ने राजनि सेना त्वागच्छत् तया सहोपविष्टं राजानं परिवार्य चातिष्ठत् ॥ १८ ॥
सभाजितश्च राजा तथैव शिबि कया प्रायात् ॥
अथ झटिति तया सह स्वं नगरमनुप्राप्य रहसि तया सह रममाणः सन्नान्यं किञ्चिदपश्यदथ प्रधानोमात्यस्तस्याभ्याशचरास्ताः स्त्रियोऽभ्यपृच्छत् ॥ १९ ॥
किमत्र प्रयोजनं विद्यते इत्यब्रुवंस्ताः स्त्रियो पूर्वमेव पश्यामस्तदुदकं नात्राश्रियत इति ॥ ५.२.८४.२० ॥
अथामा त्यश्च निरुदकं कारयित्वा दारुवृक्षं वृद्धपुष्पफलं शरद्युपलभ्य राजानामब्रवीत् ॥
वनमिदमनुदकं साध्वत्र रम्यतामिति ॥ २१ ॥
स तस्य वचनात्त यैव सह देव्या वनं प्राविशत् ॥ २२ ॥
सकलत्रस्तस्मिन्वने रम्ये तयैव सह रेमे ॥ २३ ॥
प्रविश्य च राजा सह प्रियया सुधाधवलसलिलपूर्णां वापीमपश्यत् ॥ २४ ॥
वापीं दर्दुरैः पूर्णां दृष्ट्वैव च तां तस्या एव तीरे तया देव्यातिष्ठत् ॥ २५ ॥
अथ तां देवीं राजाब्रवीत् ॥
शान्ततरं वापीसलिलमिति ॥ २६ ॥
सा च तद्वचः श्रुत्वा तीर्थवापीं न्यमज्जन्न पुनरुदमज्जत् ॥
तां मृगयमाणो राजा नापश्यत् ॥ २७ ॥
वापीं दर्दुरैर् पूर्णां दृष्ट्वा आज्ञापयामास भृत्यान्सर्वदर्दुरवधः क्रियतामिति ॥ २८ ॥
यो ममार्थी स तैर्ददुरैरुपायनैर्मामनुतिष्ठेत् ॥ २९ ॥
अथ कश्चिन्महान्दर्दुरो दर्दुरवधे क्रियमाणे सर्वासु दिक्ष्वभ्यगात् ॥ ५.२.८४.३० ॥
उपेत्य चैनमुवाचेदं ज्ञात्वा क्रोधवशङ्गतम् ॥
प्रसादं कुरु नार्हसि दर्दुराणामनपराधिनां वधं कर्तुमिति ॥ ॥ ३१ ॥
श्लोकश्चात्र भवति ॥
मा दुर्दुरान्प्रभिन्द्यास्त्वं कोपं सन्धारयाच्युत ॥
प्रक्षीयते महाधर्मो जनानां परिजानताम् ॥ ३२ ॥
तमेवं वादिनमिष्टजनवियोगे शाकपरीतात्मानं स राजा प्रोवाच ॥
नहि काममप्येतन्निष्कामेन निबर्हणीया इति ॥३३॥
एतैर्दुरात्मभिर्म स्त्री भक्षिता सर्वथैव त्विम वध्या दर्दुराः ॥
नार्हसि विद्वन्नुपरोद्धुमिति ॥ ३४ ॥
स तद्वाक्यमुपश्रुत्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नामभूपालः ॥ ३५ ॥
प्राप्ता सा मम दुहिता ॥
सा कन्या नागलोकं गता ॥
अत्रास्ते नागचूडो नागराजः ॥
स्मृता आगमिष्यति ॥ ३६ ॥
तामब्रवीद्राजा तां स्मृत्वानीय मे दीयतामिति ॥ ३७ ॥
अथैनां स्मृत्वा राज्ञे अदात् ॥
अब्रवीच्च ॥ ३८ ॥
मयावहसितो गालवो महान्मुनिः तपसा कर्शिताङ्गः ॥
क्षमेश्वरो दर्दुरबाल्यात्प्रकोपितः तेनाहं शप्तः यन्मामनादृत्य दर्दुरबाल्यादवहसितस्तस्माद्दर्दुरो भविष्यसि ॥ ३९ ॥
प्रसादितस्तु विप्रः प्रत्युवाच ॥ ॥ ५.२.८४.४० ॥
अवितथोऽयं मम शापस्तस्मादन्यजन्मनि दर्दुरराजो भूत्वा त्वं हि दुहितरमिक्ष्वाकुकुलोत्पन्नाय सर्वगुणान्विताय दत्त्वा यदा यास्यसि महाकालवने तस्योत्तरदिग्भागे तदा लिङ्गस्य दर्शनेन मुक्तिमवाप्स्यसि ॥ ४१ ॥
दुहिता कियत्पातालं यास्यति स्मृता चागमिष्यति ॥
स्वस्ति तेऽस्तु साधयिष्यामि कार्याणि, इत्युक्त्वा दर्दुरो महाकालवनमगच्छत् ॥ ४२ ॥
तस्योत्तरे लिङ्गं ददर्श तस्य दर्शनादनेकमा णिक्यरचितं सिद्धगन्धर्वसेवितं विमानवरमारुह्य शक्रलोकं गतः ॥ ४३ ॥
तस्य माहात्म्यमवलोक्य देवाचार्यो बृहस्पतिर्वाक्यं जगाद ॥ ४४ ॥
अहो लिङ्गस्य माहात्म्यमहो लिङ्गस्य वैभवम् ॥
सम्प्राप्तो वासवं लोकं शापभ्रष्टो हि दर्दुरः ॥ ४५ ॥
आयुराख्यो हि भूपालो मुक्तो दर्दुरतां गतः ॥ ॥ ४६ ॥
इति तद्वचनं श्रुत्वा देवाचार्यस्य पार्वति ॥
देवास्ते हष्टमनसो नाम चकुः समाहिताः ॥ ४७ ॥
यस्माद्दर्दुरभूपालो मुक्तो दर्दुरयोनितः ॥
दर्शनात्तस्य लिङ्गस्य तस्मात्ख्यातो भविष्यति ॥ ४८ ॥
उत्तरेश्वरदेवश्च शापपापप्रणोदकः ॥
इत्युक्त्वा त्रिदशैः सर्वैः पूजितो ह्युत्तरेश्वरः ॥ ॥ ४९ ॥
भुक्तिमुक्तिप्रदो देवि महापातकनाशनः ॥
क्षेत्रस्य रक्षणार्थाय नियुक्तो यो मया गणः ॥
दर्दुरो हि दुराधर्षः स चापीश्वरतां गतः ॥ ॥ ५.२.८४.५० ॥
उत्तराशामथो गत्वा यः पश्येदुत्तरेश्वरम् ॥
स सर्वैश्वर्यसंयुक्तो याति लोकमथोत्तरम् ॥ ५१ ॥
सुभगः सर्वदा दान्तः सुरूपः पुत्रवानिति ॥
नीरोगः पुण्यशीलश्च जायते सप्तजन्म च ॥ ५२ ॥
या वृद्धिस्तु कुबेरस्य शक्रस्य च यमस्य च ॥
वरुणस्य च या वृद्धिः सा वृद्धिरुत्तरोत्तरा ॥
जायते नात्र सन्देह उत्तरेश्वरदर्शनात ॥ ५३ ॥
कृष्णपक्षे चतुर्दश्यां ये पश्यन्ति यशस्विनि ॥
उत्तरेश्वरसञ्ज्ञं तु ते कृतार्थाः कलौ युगे ॥ ५४ ॥
किं दानैः किं तपोभिश्च किं यज्ञैर्बहुदक्षिणैः ॥
दर्शनाल्लभते राज्यं स्वर्गं मोक्षं क्रमेण तु ॥ ५५ ॥
आजन्म च कृतं पापं स्वल्पं वा यदि वा बहु ॥
तत्सर्वं नाशमायाति उत्तरेश्वरदर्शनात् ॥ ५६ ॥
इत्येवं चतुराशीतिः सङ्ख्याता ईश्वरास्तव ॥
कथिता ये त्वया पृष्टा महाकालवने मया ॥ ५७ ॥
य एतेषां देवि यात्रां प्रतिलोमानुलोमतः ॥
करिष्यन्ति नरा भक्त्या ते यास्यन्ति परं पदम् ॥। ५८ ॥
यश्चापि पूजयेत्तत्र लिङ्गं भक्त्या तु मानवः ॥
स कुलं तारयत्येव पैतृकं मातृकं शतम् ॥ ५९ ॥
एष ते कथितो देवि प्रभावः पाप नाशनः ॥
चतुराशीतिलिङ्गानां किं भूयः श्रोतुमिच्छसि ॥ ५.२.८४.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवाद उत्तरेश्वरलिङ्गमाहात्म्यवर्णनपूर्वक चतुरशीतिलिङ्गमाहात्म्यवर्णनन्नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
इति श्रीस्कान्दे महापुराणे पञ्चम आवन्त्यखण्डे द्वितीयमवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यं समाप्तम् ॥ ( ५-२) ॥