॥ श्रीहर उवाच ॥ ॥
बिल्वेश्वरस्य माहात्म्यं शृणु सुन्दरि सादरम् ॥
यस्य श्रवणमात्रेण मुच्यते सर्वपातकैः ॥ १ ॥
आदिकल्पे महादेवि लोकानामनुकम्पया ॥
कल्पवृक्षास्ततो जाता ब्रह्मणो ध्यायतः पुरा ॥ २ ॥
तेषां मध्ये बिल्ववृक्षः श्रीवृक्ष इति गीयते ॥
अधस्तात्तस्य वृक्षस्य पुरुषः काञ्चनप्रभः ॥ ३ ॥
उपविष्टस्तदा दृष्टो ब्रह्मणा लोककर्तृणा॥
फलानि तस्य पत्राणि विविधानि निरन्तरम् ॥ ४ ॥
भक्षयत्यतिसंहृष्टो हद्यानि च मृदूनि च ॥
बद्धगोधाङ्गुलित्रश्च शरी धन्वी तथैव च ॥ ५ ॥
खङ्गी किरीटमाली च कुण्डली कवची तथा ॥
महोरस्को महोत्साहः सिंहसंहननो युवा ॥ ६ ॥
ब्रह्मणा च कृतं नाम बिल्व इत्यभिविश्रुतम् ॥
तमिन्द्रो वरयामास राजा त्वं भूतले भव ॥ ७ ॥
त्रिविष्टपस्य भूमिस्थः सखाभूतो मम प्रियः ॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ॥ ८ ॥
यस्याः प्रभावतः शस्त्रं रणे न प्रभविष्यति॥
सोऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि ॥९॥
तत्स्यां पृथिव्यां राजाहं नान्यथा रोचते मम॥
ततोऽहं पालयिष्यामि सत्येनेमां वसुन्ध राम्॥५.२.८३.१० ॥
इन्द्र उवाच ॥ ॥
एवं भवतु भद्रं ते भव राजा प्रजाहितः ॥
स्मरणादेव वज्रस्ते करे यास्यति नान्यथा ॥११॥
स एवमुक्तस्तेजस्वी बिल्वो राजा बभूव ह॥
कपिलोनाम धर्मात्मा वेदवेदाङ्गपारगः ॥१२॥
सखा बभूव बिल्वस्य तस्य विप्रर्षिसत्तमः ॥
स तेन सह सङ्गम्य सुखासीनो वरानने ॥१३॥
चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनःपुनः ॥
तथा कथान्तरे वादः परस्परमभूत्तयोः ॥१४॥
दानं प्रधानं तीर्थं तु बिल्वेनोक्तं पुनःपुनः ॥
ब्रह्म श्रेष्ठं तपः श्रेष्ठमित्युक्तं कपिलेन तु॥१५॥
बिल्व उवाच॥
दानाद्राज्यं सुखं भोगा ऐश्वर्यं स्वर्गमक्षयम्॥
प्राप्यते द्विजशार्दूल कथं ब्रह्म प्रशंसससि॥१६॥
कपिल उवाच॥
वेदाद्यज्ञाः प्रवर्त्तन्ते वेदादिष्टिश्च कामिका॥
प्रवर्त्तन्ते क्रिया वेदाद्वेदमूलमिदं जगत्॥१७॥
॥ ॥ बिल्व उवाच ॥ ॥
संसारे पार्थिवाः श्रेष्ठाः समर्था लोकपालने ॥
लोकपालोपमा लोके कथं ब्रह्म प्रशंससि ॥ १८ ॥
॥ कपिल उवाच ॥ ॥
मुख्या वै ब्राह्मणाः प्रोक्ताः शापानुग्रहकारकाः ॥
पितरः पार्थिवानां तु किं त्वं बिल्व न मन्यसे ॥ १९ ॥
एवं कौतूहले जाते कपिलो द्विजसत्तमः ॥
बिल्वेन ताडितो मूर्ध्नि वज्रेणानतपर्वणा ॥ ५.२.८३.२० ॥
वज्रेण स द्विधा छिन्नः कपिलो ब्रह्मविद्यया ॥
सन्धार्य स्वशरीरं तु ममान्तिकमुपागतः ॥ २१ ॥
स्तुतोऽहं विविधैः स्तोत्रैः सम्यगाराधितो ह्यहम् ॥
मया दत्तमव्ययत्वं कुलिशाद्ब्राह्मणस्य तु ॥ २२ ॥
द्विजः समागतो बिल्वं पुनः सख्यमभूत्तयोः ॥
पुनस्तु तादृशो वादः सञ्जातः पर्वतात्मजे ॥ २३ ॥
वामपादेन चाप्येनं बिल्वो विप्रमताडयत् ॥
पुनश्च वज्रमादाय जघानैनं तदा दृढम्॥ २४ ॥
न मृतिं न व्यथां तस्य तद्वज्रमकरोत्पुनः ॥
अवध्यत्वमथो ज्ञात्वा बिल्वस्तस्य महात्मनः ॥ २५ ॥
नारायणमथासाद्य प्रार्थयामास चेप्सितम्॥
वरदोऽस्मीति तुष्टेन विष्णुना स च मोदितः ॥
प्रोवाच प्रणतो विष्णुमिदं देवि महामनाः ॥ २६ ॥
॥ बिल्व उवाच ॥ ॥
कपिलोनाम विप्रर्षिरवध्योऽक्षय एव च ॥
सखा मम हृषीकेश स च मामाह नित्यशः ॥
बिभेम्यहं न देवस्य राक्षसस्यासुरस्य च ॥ ॥ २७ ॥
पिशाचस्यापि यक्षस्य न चैवान्यस्य कस्यचित् ॥
बिभेमीति यथा ब्रूयां तथा त्वं कर्त्तुमर्हसि ॥ २८ ॥
एवमुक्तस्तु बिल्वेन स देवः पुरुषोत्तमः ॥
एवं भविष्यतीत्युक्त्वा कपिलस्याश्रमं गतः ॥२९॥
स प्रविश्याश्रमं देवं कपिलेन प्रपूजितः ॥
कपिलं प्रत्युवाचेदं सामपूर्वं जनार्द्दनः ॥ ॥ ५.२.८३.३० ॥
भगवन्ब्राह्मणश्रेष्ठ वेदवेदाङ्गपारग ॥
वरमेकं वृणोम्यद्य विप्रेन्द्र दातुमर्हसि ॥ ३१ ॥
प्रसादितोऽहं बिल्वेन नृपेन्द्रेण पुनःपुनः ॥
वरदोऽ स्मीति चाप्युक्तो वरं वव्रे महामुने ॥ ३२ ॥
त्वया प्रोक्तं बिभेमीति ब्रूहि तस्मादनुग्रहात् ॥
अभीतस्त्वं तथाप्यद्य मदर्थं तु वद प्रभो ॥ ३३ ॥
कपिलस्त्वेवमुक्तो वै विष्णुना मधुरं वचः ॥
उवाच न बिभेमीति भूयोभूयो जनार्दन ॥ ३४ ॥
नाहं वक्ष्ये बिभेमीति तेनोक्तं नोच्यते मया ॥
एतच्छ्रुत्वा वचस्तस्य कपिलस्य जनार्द्दनः ॥
उवाच चक्रमुद्यम्य भयं विप्रस्य दर्शयन् ॥ ३५ ॥
न चेद्वक्ष्यसि भीतोऽहं चक्रं ते प्रहरामि वै ॥ ३६ ॥ ॥
॥ कपिल उवाच ॥ ॥
किं वृथा प्रियचक्रस्य विष्णो क्लेशमिहेच्छसि ॥
नाहं चक्रस्य ते गम्यः प्रसादात्त्र्यम्बकस्य हि ॥ ३७ ॥
ततः स मुष्टिमादाय कुशानां कपिलस्तदा ॥
वासुदेवं समासाद्य तिष्ठतिष्ठेत्यभाषत ॥ ३८ ॥
अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम् ॥
तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन ॥ ३९ ॥
ततो युद्धं समभवत्तुमुलं लोमहर्षणम् ॥
निमेषान्तरमात्रं तु कृष्णस्य कपिलस्य च ॥ ५.२.८३.४० ॥
दिव्यास्त्राणां कुशानां च युद्धं समभवद्दृढम् ॥
निरालम्बेंऽबरे देवि देवानां भयमाविशत् ॥ ४१ ॥
एतस्मिन्नन्तरे ब्रह्मा सुरैः परिवृतस्तदा ॥
आजगामाति सन्तप्तः कृष्णं वचनमब्रवीत् ॥ ४२ ॥
भगवन्भूतभव्येश भवबन्धभयापह ॥
हृषीकेश हृषीकेश सूष्टिसंहारकारक ॥ ४३ ॥
समाराध्य जगन्नाथ शक्रा द्यास्त्रिदिवौकसः ॥
वसन्ति मुदिताः सर्वे सर्वकामसमन्विताः ॥ ४४ ॥
आब्रह्मस्तम्बपर्यन्तं त्रैलोक्यं सचराचरम् ॥
उत्पादितं धृतं व्याप्तं विष्णुना प्रभविष्णुना ॥ ४५ ॥
तेनैकेन विशुद्धेन सर्वगेन महात्मना ॥
इति स्म मुनयः सर्वे उदिता मुनिसत्तमाः ॥ ४६ ॥
वदन्ति कारणं चास्य त्रैलोक्यस्य जनार्द्दनः ॥
देवदानवदैत्यैश्च मुनिचारणपन्नगैः ॥ ४७ ॥
वरार्थिभिश्च प्रवरैः पूज्यसे गरुडध्वज ॥
किं भवानेव गोर्विद वृथा युध्यसि स द्विजैः ॥ ॥ ४८ ॥
कपिलस्य च विप्रस्य हराल्लब्धवरस्य च ॥
किं न वेत्सि यथा ह्येष प्रसादात्पारमेश्वरात्॥ ४९॥
अवध्यत्वमनुप्राप्तो ह्यजेयत्वं च संयुगे ॥
न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते ॥ ५.२.८३.५० ॥
ब्रह्म च ब्रह्मणो मूलं त्वयैव प्राक्प्रतिश्रुतम् ॥
तस्मादाशु निवर्तस्व मत्वैनं ब्राह्मणं विभो ॥ ५१ ॥
इत्थं निशम्य देवेशो वाक्यं ब्रह्ममुखाच्च्युतम् ॥
योगेन तद्बलं ज्ञात्वा कपिलस्य तु शङ्करम् ॥ ५२ ॥
जगाम परमं लोकं पूज्यमानस्त्रिविष्टपैः ॥
गते जनार्दने बिल्वो विललाप पुनः पुनः ॥ ५३ ॥
युद्धं सुदारुणं श्रुत्वा कृष्णस्य कपिलस्य च ॥
कथं जेष्यामि कपिलं कथं मे निर्वृतिर्भवेत् ॥
कस्याहं शरणं यामि को मे त्राता भविष्यति ॥ ५४ ॥
न जितः कपिलो युद्धे विष्णुना प्रभविष्णुना ॥
मया संस्पर्द्धते नित्यं कथं जेयो भविष्यति ॥ ५५ ॥
अजेया ब्राह्मणा युद्धे शापानुग्रहकारकाः ॥
भस्म कुर्युर्जगत्सर्वं सदेवा सुरमानुषम् ॥ ५६ ॥
ब्राह्मं हि परमं तेजो देवैरपि दुरासदम् ॥
एवं विलपतस्तस्य वासवः समुपागतः ॥ ५७ ॥
विलपन्तं कृशं बिल्वं वज्र हस्तमवेक्ष्य सः ॥
ममत्वाकृष्टहृदयः प्रत्युवाच पुरन्दरः ॥५८॥
अलं शोकेन भूपाल शृणु मे वचनं परम्॥
यदाहं पीडितो युद्धे शम्बरेण दुरात्मना ॥
बलिष्ठेन सगर्वेण तदा पृष्टो मया गुरुः ॥५९॥
बृहस्पतिर्महातेजास्तेनोक्तं तु तदा नृप ॥
गच्छ शक्र ममादेशान्महाकालवनं शुभम् ॥ ५.२.८३.६० ॥
यत्र सन्ति सुदिव्यानि लिङ्गानि विविधानि च ॥
भुक्तिमुक्तिकराण्येव वाञ्छितार्थप्रदानि च॥६१॥
तेषां मध्ये लिङ्गमेकमाराधय शचीपते ॥
यस्य दर्शनमात्रेण रणे धृष्टो भविष्यसि ॥
तस्य तद्वचनाद्बिल्व सम्यगाराधना कृता ॥ ६२ ॥
मया लिङ्गस्य हर्षेण जितो वै शम्बरस्तदा ॥
प्रसिद्धिं तु गता देवः स चेन्द्रेश्वरसञ्ज्ञकः ॥ ६३ ॥
तस्मात्त्वं पश्चिमामाशां गत्वा क्षेत्रस्य तस्य वै ॥
समाराधय यत्नेन लिङ्गं वरुणपूजितम् ॥६४॥
तल्लिङ्गं त्रिषु लोकेषु त्वन्नाम्ना ख्यातिमेष्यति ॥
कपिलस्त्वत्सखा विप्रो जितोऽस्मीति वदिष्यति ॥
तस्य लिङ्गस्य माहात्म्यान्मित्रभावं गमिष्यति ॥ ६५ ॥
इत्युक्त्वा तु गते शक्रे देवलोकं यशस्विनि ॥
पूजयामास भावेन पुष्पैर्दिव्यैः सुगन्धिभिः ॥ ६६ ॥
जगाम बिल्वो भूपालो महाकालवनं शुभम् ॥
ददर्श पश्चिमे भागे लिङ्गं त्रिदशपूजितम् ॥ ६७ ॥
मुक्ताफलैश्च रत्नैश्च वासोभिर्भूषणैस्तथा ॥
एतस्मिन्नन्तरे चैव कपिलोऽपि समागतः ॥ ६८ ॥
ददर्श बिल्वं भूपालं पूजयन्तं पुनःपुनः ॥
शरीरे तस्य बिल्वस्य मदीयं रूपमुत्तमम् ॥
दृष्ट्वा मत्वा महादेवं जितोऽस्मीति द्विजोऽब्रवीत् ॥६९॥
प्रार्थयामि त्वया सख्यमनन्तं शिवसन्निधौ ॥
एवमुक्तस्तदा बिल्वः कपिलेन महात्मना ॥ ५.२.८३.७० ॥
प्रसन्नः प्राञ्जलिर्भूत्वा कपिलं द्विजसत्तमम् ॥
एवं भवतु भद्रं ते कृतार्थोऽहं महात्मना ॥७१॥
सख्यं तदेव भवतु शश्वद्वदसि मन्यसे ॥
एवमन्योन्यमुक्त्वा तौ कृत्वा सख्यमनुत्तमम् ॥७२॥
चिकीडतुश्चिरं कालं परं हर्षमुपागतौ ॥
तस्य लिङ्गस्य माहात्म्याद्भूयो राज्यं चकार सः ॥ ७३ ॥
स हि मित्रेण भूपालो बिल्वो देवि मुदान्वितः ॥
तदाप्रभृति विख्यातो देवो बिल्वेश्वरः क्षितौ ॥
बिल्वेनाराधितो लोके वाञ्छितार्थफलप्रदः ॥ ७४ ॥
ये पश्यन्ति विशालाक्षि देवं बिल्वेश्वरं परम् ॥
ते कृतार्था भविष्यन्ति सर्वपातकवर्जिताः॥७५॥
येऽनुमोदन्ति देवस्य दर्शनं पर्वतात्मजे ॥
तेऽपि पापविनिर्मुक्ताः प्रयान्ति मम मन्दिरे ॥७६॥
समतीतं भविष्यं च कुलानामयुतं नरः॥
मम लोकं नयत्याशु तस्य लिङ्गस्य दर्शनात् ॥ ७७ ॥
प्रयान्ति पितरो हृष्टा मम लोके ह्यतन्द्रिताः ॥
विमुक्ताः पातकैर्घोरैः कृत्वा लिङ्गस्य दर्शनम ॥७८॥
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ॥
तत्पापं विलयं याति श्रीबिल्वेश्वरदर्शनात् ॥ ७९ ॥
या तिथिः श्रूयते देवि कृष्णपक्षे त्रयोदशी ॥
सा प्रोक्ता वल्लभा तस्य सर्वपातकनाशिनी ॥ ५.२.८३.८० ॥
येऽर्चयन्ति नरास्तस्यां देवं बिल्वेश्वरं प्रिये ॥
न तेषां पुनरावृत्ति र्घोरसंसारगह्वरे ॥ ८१ ॥
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥
तत्क्षालयति देवोऽसौ तिथौ तस्यां समर्चितः ॥ ८२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
बिल्वेश्वरस्य देवस्य श्रूयतामुत्तरेश्वरम्॥ ८३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये बिल्वेश्वरमाहात्म्यवर्णनन्नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥