०८२ नम्

॥ महादेव उवाच ॥ ॥
कायावरोहणस्यापि उत्पत्तिं शृणु पार्वति ॥
यस्याः श्रवणमात्रेण न नरः कायवान्भवेत् ॥ १ ॥
ब्रह्मणः सृष्टिकामस्य मनोवर्वैस्वतेंऽतरे ॥
दक्षस्त्व जायताङ्गुष्ठाद्दक्षिणात्स प्रजापतिः ॥ २ ॥
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ॥
तस्यां पञ्चाशतं कन्याः स एवाजनयत्प्रभुः ॥ ३ ॥
ताः सर्वाश्चानवद्याङ्गीः कन्याः कमललोचनाः ॥
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥ ४ ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥
दिव्येन विधिना देवि सप्तविंशतिमिन्दवे ॥ ५ ॥
रोहिणी वल्लभा जाता तस्य चन्द्रस्य सर्वदा ॥
षड्विंशतिकृते चन्द्रः शप्तो दक्षेण पार्वति ॥ ६ ॥
चन्द्रेणापि तथा शप्तो दक्षः प्राचेतसः कृतः ॥
अयजत्सोऽश्वमेधेन भूत्वा प्राचेतसात्मजः ॥ ७ ॥
नामन्त्रितोऽहं मोहेन दक्षेण पर्वतात्मजे ॥
तत्र देवनिकायानां यज्ञभागानशेषतः ॥ ८ ॥
हव्यवाहस्तदा युक्तो वहन्मन्त्रैः समीरितः ॥
त्वया दृष्टो विशालाक्षि निरालम्बेंऽबरे स्थितः ॥ ९ ॥
स्मरन्त्या पूर्ववैरं तु विज्ञप्तोऽहं त्वया प्रिये ॥
त्वं देवः सर्वदेवानां गतिश्च शरणं तथा ॥ ५.२.८२.१० ॥
त्वं यज्ञस्त्वं वषट्कारो होताऽध्वर्युस्त्वमेव च ॥
त्वया विना कथं यज्ञो वर्त्तते सर्वदेवप ॥ ११ ॥
देवानां भागधेयानि वहत्यग्निरयं भयात् ॥
सगर्वश्चावलिप्तश्च दक्षः प्राचेतसः किल ॥ १२ ॥
अनुस्मरन्पूर्ववैरं नैव दास्यत्यशासितः ॥
कायहीनश्च कर्त्तव्यो दक्षो वह्निस्तथैव च ॥ १३ ॥
ये च यज्ञे समानीता देवा दक्षस्य शङ्कर ॥
ते सर्वे कायरहिताः कार्या स्त्रिपुरसूदन ॥ १४ ॥
एवमुक्ते त्वया देवि मयाप्युक्तं वरानने ॥
पूर्वजन्मनि दक्षोऽयं पिता तव शुचिस्मिते ॥ १५ ॥
वह्निश्चादेशकारी च देवाः क्रीडनकाः प्रिये ॥
मदीयं वचनं श्रुत्वा कृतः क्रोधस्त्वया प्रिये ॥ १६ ॥
ललाटे भ्रुकुटीं कृत्वा प्रोच्छ्वसन्त्या पुनःपुनः ॥
क्रोधात्करेण नासाग्रं मर्दितं बहुशस्तदा ॥ १७ ॥
तस्मिन्सम्मर्द्यमाने तु नासाग्रे पर्वतात्मजे ॥
जाता स्त्री भ्रुकुटीवक्रा चतुर्दंष्ट्रा त्रिलोचना ॥ १८ ॥
बद्धगोधाङ्गुलित्रा च कवचाबद्धमेखला ॥
सखड्गा सधनुष्का च सतूणा सपताकिनी ॥ १९ ॥
सहस्रास्या शतभुजा सहस्रचरणोदरी ॥
प्रतिकूलैः पदैर्देवि कम्पयन्ती तथा भुवम् ॥ ५.२.८२.२० ॥
कृतं नाम त्वया देवि तां दृष्ट्वा च तमोमयीम् ॥
भद्रकाली च माया च सर्वलोकनमस्कृते ॥ २१ ॥
मया सृष्टस्तु पुरुषस्तादृशो लोमहर्षणः ॥
स चापि प्राञ्जलिर्भूत्वा मामुवाच पुनःपुनः॥
आज्ञापय सुरेशान किं करोमि जगत्प्रभो ॥२२॥
ततो देवि मयाज्ञप्तो भावं ज्ञात्वा त्वदीयकम् ॥
कृत्वा नाम मनोज्ञं तु वीरभद्र इति स्मृतः ॥ २३ ॥
वीरभद्र ममादेशाद्भद्रकाल्या सहानया ॥
प्राचेतसात्मजं दक्षं सगर्वं सहदैवतम् ॥ २४ ॥
विध्वंसय गणाध्यक्ष सयज्ञं सपरिग्रहम् ॥
दत्तं मया महत्सैन्यमसङ्ख्येयगुणस्य च ॥ २५ ॥
त्वयापि भद्रकाल्यास्तु दत्तं सैन्यं भयावहम् ॥
कपालकर्त्रिकाहस्तं मातॄणां गणमक्षयम् ॥ २६ ॥
ततस्तौ तेन सैन्येन महतातिसमावृतौ ॥
जग्मतुस्तत्र यत्रास्ते दक्षः प्राचेतसो यजन् ॥ २७ ॥
देवैः परिवृतो देवि सदस्यैर्ब्राह्मणैः सह ॥
ततो देवाः सुरुद्धास्ते तेन सैन्येन पार्वति ॥
विश्रब्धा मन्त्रपूतं तु पिबन्तः सोममध्वरे ॥ ॥ २८ ॥
त्रिनेत्रेण त्रिशूलेन त्रिदशाधिप ईश्वरः ॥ त्रा
सितः सहसा शक्रो गणेनाध्वरमध्यगः ॥ २९ ॥
यमाख्येन गणेनैव यमकल्पप्रभेण च ॥
सोमपाने प्रसक्तश्च यमश्चाकर्षितोऽध्वरे॥५.२.८२.३०॥
पाशेन वरुणो बद्धः पाशेन गणपेन तु ॥
पश्चिमाशाधिपो वीरः प्राणेन परमेश्वरि ॥३१॥
ताडितोऽनिल एवाथ उत्तरे नरवाहनः ॥
उत्तराशाधिपो देवि निधानैः सहितोऽध्वरे ॥
वीरभद्रनियुक्तास्ते चक्रुर्युद्धं सुदारुणम् ॥ ३२ ॥
अथ युद्धं चकारो च्चैर्भद्रकाली भयावहा ॥
विकराली महाकाली कालिका कलशोदरी ॥ ३३ ॥
प्रज्वालज्वलनाकारा शुष्कमांसातिभैरवा ॥
एताश्चान्याश्च शतशो नरमालाविभूषणाः ॥ ३४ ॥
कपालकर्त्रिकाहस्ता जघ्नुर्देवगणास्तदा ॥
इति मातृगणं क्रुद्धं मर्दयन्तं सुरास्तदा ॥
दृष्ट्वाभ्युपगता देवास्तुषिता युद्धलालसा ॥३५॥
केचिच्च चिक्षिपुः शक्तीः केचित्प्रासांस्तथापरे ॥
केचिच्च तोमरैस्तीक्ष्णैः केचित्खङ्गैश्च पट्टिशैः ॥३६॥
अर्द्दितो मातृसङ्घस्तु पीडिताः प्रमथा यदा ॥
भद्रकाली तदा क्रुद्धा गदया शरवृष्टिभिः॥३७ ॥
खड्गादिभिः षडर्कांशुः पीडयामास संयुगे ॥
भगस्य नेत्रे पूष्णस्तु दशनाः सूदिता मुखात् ॥ ३८ ॥
करान्दिनकरस्यैव चरणौ भास्करस्य च ॥
मुशलेन हता येऽष्टौ वसवो रणकोविदाः ॥ ३९ ॥
वमन्तो रुधिरं तेऽपि नष्टा जर्जर मस्तकाः ॥
विदेहाश्च कृता युद्धे तुषिता रणगर्विताः ॥ ५.२.८२.४० ॥
बद्धः प्राचेतसो दक्षः पाशेन सुदृढेन च ॥
शेषाश्च त्रिदशा भीता ब्रह्माणं शरणं गताः ॥ ४१ ॥
वृत्तान्तः कथितः सर्वो विस्तरेण यथा तथा ॥
आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः ॥ ४२ ॥
नष्टाश्च वसवो देवाः पीडिता भास्करा रणे ॥
न ज्ञायते सहस्राक्षो न यमो न धनेश्वरः ॥
वरुणो यादसां नाथः क्व गतः परमेश्वरः ॥ ४३ ॥
भद्रकाल्या हतं सर्वं वीरभद्रगणेन च ॥
भग्नश्च यज्ञयूपो वै विध्वस्तं कलशं तदा ॥ ४४ ॥
प्रदीपिता महाशाला भग्नं वै यज्ञतोरणम् ॥
तेषां तु वचनं श्रुत्वा ब्रह्मा लोकपितामहः ॥
आजगाम कृपाविष्टो यत्राहं मन्दरे स्थितः ॥ ४५ ॥
स्तुतिं कृत्वा मदीयां तु वाक्यमुक्तमिदं तदा॥
आद्या ये तुषिता देवा विदेहाश्चैव ते कृताः ॥ ॥ ४६ ॥
भद्रकाल्या महादेव वसवो जर्जरीकृताः ॥
पीडिता भास्करा युद्धे शेषा नष्टा दिशो गताः ॥ ४७ ॥
कायावरोहणं देव तुषितानां कथं भवेत्॥
ब्रह्मणो वचनं श्रुत्वा मया प्रोक्तं वरानने ॥ ४८ ॥
महाकालवने क्षेत्रे गच्छन्तु तुषितास्त्वमी ॥
लकुटीशो गतो यत्र कायावरोहणाद्ग्र हम्॥ ४९ ॥
ब्राह्मणाश्च ममादेशाच्चतुःशिष्यैः समन्विताः ॥
द्वापरे समतिक्रान्ते प्राप्ते कलियुगे तथा ॥ ५.२.८२.५० ॥
तत्र कायमनुप्राप्ता मम शिष्या ममो पमाः ॥
अवसन्त क्षितौ धन्या रक्षणार्थं द्विजन्मनाम् ॥ ५१ ॥
क्षेत्रस्य दक्षिणे तस्य विद्यते लिङ्गमुत्तमम् ॥
सर्वसम्पत्करं दिव्यं सिद्धानां काय दायकम्॥ ५२ ॥
प्रसादात्तस्य लिङ्गस्य कायान्प्राप्स्यन्त्यमी सुराः ॥
मदीयं वचनं श्रुत्वा गतास्ते तुषिताः प्रिये ॥ ५३ ॥
मुदिता ब्रह्मणा सार्द्धं यत्र तल्लिङ्गमुत्तमम्॥
प्रसादात्तस्य लिङ्गस्य प्राप्तं कायमनुत्तमम् ॥ ५४ ॥
पुनस्ते तादृशा जातास्तुषिता यादृशाऽभवन् ॥
अतो देवैः कृतं नाम कायावरोहणेश्वरः ॥
समीहितप्रदो नित्यं ख्यातो देवो भविष्यति ॥ ५५ ॥
ये गत्वा दक्षिणामाशां देवं कायावरोहणम् ॥
पश्यन्ति परया भक्त्या यमस्तेषां पिता भवेत्॥ ५६ ॥
जन्मकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥
तत्सर्वं नाशमायाति दर्शनादेव नान्यथा ॥ ५७ ॥
स्वकर्मणा गता ये च नरके पितरो गणाः॥
दर्शनात्तस्य लिङ्गस्य तेषां मुक्तिर्भविष्यति ॥५८॥
ये पश्यन्ति प्रसङ्गेन देवं कायारोहणम् ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ५९ ॥
स्पर्शनात्तस्य लिङ्गस्य पापिनोपि हि ये नराः ॥
ते यास्यन्ति परं स्थानं सर्वपापविवर्जितम् ॥ ५.२.८२.६० ॥
शाठ्येन पूजितो देवः कायावरोहणेश्वरः ॥
ददाति राज्यं भोगांश्च स्वर्गलोकं सनातनम् ॥ ६१ ॥
द्वादश्यां ये प्रपश्यन्ति स्नात्वा कायावरोहणम् ॥
ते भित्त्वा ब्रह्मसदनं यास्यन्ति परमां गतिम्॥ ६२ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
कायावरोहणेशस्य बिल्वेश्वरमथो शृणु ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे कायावरोहणेश्वरमाहात्म्यवर्ण नन्नाम द्वयशीतितमोऽध्यायः ॥ ८२ ॥