०८१ पिङ्गलेश्वरमाहात्म्यवर्णनम्

॥ ईश्वर उवाच ॥ ॥
चतुर्द्वारस्थितं देवि शृणु लिङ्गचतुष्टयम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ॥ १ ॥
अहं पृष्टस्त्वया देवि कौतुकाच्च वरानने ॥
अतीव रमणीयं च स्थलं दर्शय मे प्रभो ॥ २ ॥
सेवितं बहुभिः सिद्धैः पुनरावृत्तिकाङ्क्षिभिः ॥
यद्गुह्यं च पवित्रं च प्रलयेऽप्यविनाशि यत् ॥ ३ ॥
अनन्यसदृशं दिव्यं यत्तीर्थं यत्तपोवनम् ॥
असङ्ख्येयगुणोपेतं भुक्तिमुक्तिकरं शुभम् ॥ ४ ॥
सुवर्णशृङ्गाः प्रासादा हर्म्याणि विविधानि च ॥
उद्यानानि विचित्राणि मार्गाश्च विविधाः शुभाः ॥ ५ ॥
समीहितफलावाप्तिर्यत्र लभ्या सुखेन वै ॥
सिद्धचारणगन्धर्वकिन्नरोद्गीतनादितम् ॥ ६ ॥
पुण्यलोको पमस्थानं त्रिविष्टपविभूषणम् ॥
एवमभ्यर्थितो देवि मन्दरे चारुकन्दरे ॥ ८० ॥
मया प्रोक्तं प्रसन्नेन स्थानं शृणु सनातनम् ॥
महाकालवनं रम्यं स्वर्गात्सुखकरं परम् ॥ ८ ॥
अनौपम्यगुणोपेतं भुक्तिमुक्तिकरं शुभम् ॥
तत्समः कोऽपि धन्योऽन्यो न दृष्टो भुवनत्रये ॥ ९ ॥
देवगन्धर्व्वसिद्धैश्च सेव्यं वै मुक्तिकाङ्क्षिभिः ॥
विनोदार्थं मया सृष्टं त्वत्प्रियार्थं कुतूहलात् ॥ 5.2.81.१० ॥
तिलकं सर्वतीर्थानां जम्बूद्वीपे मनोरमे ॥
इच्छाकामफलावाप्तिरनायासेन लभ्यते ॥ ११ ॥
जरारोगभयैर्हीनं सर्वव्याधिविवर्जितम् ॥
शक्राग्नियमरक्षोम्बुवायुसोमेशसेवितम् ॥
स्वर्गे प्रमुदिता देवास्तेऽपि काङ्क्षन्ति सर्वदा ॥ १२ ॥
असङ्ख्येयफलं त्वत्र अक्षया च गतिः सदा ॥
यैर्न संसेवितं स्थानं वञ्चितास्ते नरा भुवि ॥ १३ ॥
क्षेत्रस्य च गुणान्वक्तुं देवदानवमानवैः ॥
न शक्यते प्रयत्नाच्च स्वयं यत्र स्थितो ह्यहम् ॥ १४ ॥
यत्किञ्चिदशुभं कर्म कृतं मानुषकर्मणा ॥
महाकालवनं प्राप्य तत्सर्वं भस्मसाद्भवेत् ॥ १५ ॥
न सा गतिः कुरुक्षेत्रे गङ्गाद्वारे त्रिपुष्करे ॥
या गतिर्विहिता पुंसां महाकालवने सदा ॥ १६ ॥
तिर्यग्योनिगता गत्वा महाकालवने स्थिताः ॥
तत्रैव निधनं प्राप्तास्ते यान्ति परमां गतिम् ॥ १७ ॥
मेरुमन्दरमात्रोपि राशिः पापस्य कर्मणः॥
महाकालवनं प्राप्य सर्वोपि व्रजति क्षयम् ॥ १८ ॥
श्मशानमिति चाख्यातं महाकालवनं प्रिये ॥
तत्र ब्रह्मादयो देवा नारायणपुरोगमाः ॥ १९ ॥
योगिनश्च तथा साङ्ख्याः सिद्धाश्च सनकादयः ॥
उपासते च मां भक्त्या मद्भक्त्या मत्परायणाः ॥ 5.2.81.२० ॥
या गतिर्योगतपसां या गतिर्यज्ञयाजिनाम् ॥
महाकालवने क्षेत्रे सा गतिर्विहिता मया ॥ २१ ॥
संहरामि च तत्रस्थस्त्रैलोक्यं सचराचरम् ॥
अतो देवि समाख्यातं महाकालवनं शुभम् ॥ २२ ॥
एवं बहुविधाञ्छुत्वा गुणान्बहुविधांस्तथा ॥
देवि त्वं विस्मिता जाता गमनाय मनो दधे ॥ २३ ॥
क्षेत्रस्यालोकने चित्तं जातमुत्कण्ठितं तव ॥
त्वया सार्द्धं समा गत्य महाकालवने शुभे ॥ २४ ॥
पश्य देवि विचित्राख्यं यन्मया कथितं तव ॥
अमरेशपुरस्पर्द्धि वर्द्धितानन्दसुन्दरम् ॥
वर्णितं यन्मया देवि भुक्ति मुक्तिकरं परम् ॥ २५ ॥
त्वया प्रोक्तं विशालाक्षि दृष्ट्वा क्षेत्रमनुत्तमम् ॥
अस्य स्थानस्य रक्षार्थं भक्तं गणचतुष्टयम् ॥
नियुज्यतां महादेव सन्तोषाय मम प्रभो ॥ २६ ॥
द्वाराणि तत्र चत्वारि क्रियतां परमेश्वर ॥
चत्वारः कलशाश्चैव हैमाः कार्या दृढाः शुभाः ॥ २७ ॥
पूर्वादिक्रमयोगेन चतुर्वर्गो नियोज्यताम् ॥
धर्मश्चार्थश्च कामश्च मोक्षश्चैव महेश्वर ॥ २८ ॥
त्वदीयं वचनं श्रुत्वा मया देवि प्रयत्नतः ॥
अस्य क्षेत्रस्य रक्षार्थं स्मृतं गणचतुष्ट यम् ॥ २९ ॥
चत्वार ईश्वरास्तेऽपि स्थापितास्तदनन्तरम् ॥
पिङ्गलेशो धनाध्यक्षस्तथा कायावरोहणः ॥ 5.2.81.३० ॥
बिल्वेश्वरो गणश्रेष्ठो दुर्दर्शो गण नायकः ॥
एते मया नियुक्ता वै समर्थाः क्षेत्ररक्षणे ॥ ३१ ॥
पूर्वादिक्रमयोगेन त्वत्प्रियार्थं वरानने ॥
नियुक्तास्त्वन्मतेनैव पूर्वस्यां दिशि पिङ्गलः ॥ ॥ ३२ ॥
दक्षिणस्यां दिशि तथा प्रिये कायावरोहणः ॥
बिल्वेश्वरः प्रतीच्यां तु दुर्द्दर्शश्चोत्तरे तथा ॥ ३३ ॥
मानवा ये म्रियन्तेऽत्र क्षेत्रमध्ये गणो त्तमाः ॥
तेषां रक्षा परा कार्या भवद्भिर्मम शासनात्॥३४॥
कथां शृणु प्रयत्नेन पिङ्गलेश्वरसम्भवाम् ॥
यस्याः श्रवणमात्रेण कृतकृत्यो नरो भवेत् ॥ ॥। ३५ ॥
पिङ्गला कन्यका देवि कान्यकुब्जे बभूव ह ॥
सुशीला च सुवेषा च सौन्दर्येणातिनिर्मिता ॥३६॥
पिता तस्या महाप्राज्ञः सर्वशास्त्रार्थतत्त्व वित् ॥
ज्ञानध्यानरतश्चैव स्वाध्यायपरिनिष्ठितः ॥ ३७॥
पिङ्गलोनाम विप्रेन्द्रो भार्या तस्य पतिव्रता ॥
पिङ्गाक्षी विश्रुता लोके सा च पञ्चत्वमा गता ॥ ३८ ॥
ततस्तेन स दुःखेन गृहस्थाश्रमनिःस्पृहः ॥
तपोवनं जगामाथ गृहीत्वा तनयां स्वकाम् ॥ ३९ ॥
ऋषिभिः सेवितं पुण्यं शाकमूल फलाशनैः॥
स तत्र मुनिभिः सार्द्धं ध्यानयोगपरायणः ॥ 5.2.81.४० ॥
निवासं कृतवान्देवि पिङ्गलायाश्च रक्षणम् ॥
पालयामास धर्मात्मा पुत्रिकां हृदयोपमाम् ॥ ४१ ॥
तामेव सततं साध्वी मन्यमानो महातपाः ॥
न पाणिं ग्राहयामास मातृहीनेति चिन्तयन् ॥ ४२ ॥
विरक्तोऽपि महाभाग संसारा त्सर्वधर्म्मवित् ॥
पुत्रिकां प्रेक्षयन्सम्यक्सन्न्यासं नाकरोद्वशी ॥ ४३ ॥
अथ संरक्षयन्बालां मातृहीनां तपस्विनीम् ॥
संयुक्तः कालधर्मेण स विप्रः स्वर्जगाम ह ॥४४ ॥
ततः सा र्पिगला दीना हीना पित्रा सुदुःखिता॥
विललापातुरा देवि पतिता शोकसागरे ॥ ४५ ॥
पिङ्गलोवाच ॥ ॥
अद्य मे च पिता दैवात्कालधर्ममुपेयिवान् ॥
मां त्यक्त्वा गतवानेको दयालुर्निःस्पृहो यथा ॥४६॥
स समः सर्वभूतेषु ममात्यन्तं हिते रतः ॥
मामेकां सम्परित्यज्य परलोकमितो गतः ॥ ४७ ॥
साऽहं परमदुःखार्ता पितृशोकेन विह्वला ॥
शरीरं धारयामीदं कृपणं व्यर्थजीवितम् ॥ ४८ ॥
ब्रह्मज्ञोपि हि तातो मे शान्तो दान्तो जितेन्द्रियः ॥
मामेव पालयामास मातृहीनेति चिन्तयन् ॥ ४९ ॥
येन संरक्षिता बाल्ये येनास्मि परिवर्धिता ॥
तेन पित्रा वियुक्ताहं न जीविष्ये कदाचन ॥ 5.2.81.५० ॥
नद्यां वा निपतिष्यामि समिद्धे वा हुताशने ॥
पर्वताद्वा पतिष्यामि पितृहीना निराश्रया ॥ ५१ ॥
इति शोकातुरा बाला विलपन्ती पुनःपुनः ॥
बोध्यमाना महाभागैः सदारैर्ऋषिसत्तमैः ॥५२॥
कन्यकाभी रुदन्तीभिर्वयस्याभिः समन्ततः॥
आलिङ्ग्यालिङ्ग्य बहुशः पीड्यमाना सुदुःखिता ॥
आगत्य करुणाविष्टो धर्मः परहिते रतः ॥ ५३ ॥
स्थविरो ब्राह्मणो भूत्वा प्रोवाचेदं वचस्तदा ॥
अलं बाले विशालाक्षि रोदनैरतिदारुणैः ॥
न भूयः प्राप्यते तातस्तस्मान्नार्हसि शोचितुम् ॥ ५४ ॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ॥
प्रियैः सह च संवासस्तन्न शोचन्ति पण्डिताः ॥ ५५ ॥
त्वया वै तत्कृतं कर्म पूर्वजन्मनि शोभने ॥
येन पित्रा वियोगः स्यादरण्ये मुनिसेविते ॥ ५६ ॥
त्वां विहाय गतः क्वापि पश्य बाले विधेर्बलम् ॥
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् ॥ ५७ ॥
एवमीहा समासक्तं मृत्युः प्रकुरुते वशे ॥
तस्माद्दुःखं समुत्सृज्य श्रोतुमर्हसि शोभने ॥ ५८ ॥
पितृभ्यां च वियोगश्च येनाभूत्तव कर्मणा ॥
पुरा त्वं सुन्दरी नाम वेश्यारूपेण सुन्दरी ॥ ५९ ॥
नृत्यगेयादि निपुणा वीणावेणुविचक्षणा॥
आदिश्च पण्यनारीणां भूषणाच्छादनादिभिः ॥5.2.81.६०॥
तां दृष्ट्वा रूपसम्पन्नां सुवेषां सुविभूषिताम् ॥
ब्राह्मणो गुणवान्क श्चिद्बभूव मदनातुरः ॥ ६१ ॥
तं विदित्वा तथाभूतं ब्राह्मणं मदनातुरम् ॥
समाश्चतस्रस्तेन त्वं रमिता कामिना ततः ॥ ६२ ॥
सोऽथ पापरतिर्मूढो ब्राह्मणो विषयात्मकः ॥
हतः शूद्रेण केनापि कामिना तव वेश्मनि ॥ ६३ ॥
विहाय भार्यामप्रौढां शुभां द्वादशवार्षिकीम् ॥
प्रयातो नरकं घोरं शूद्रासम्पर्कदूषितः ॥६४॥
ततस्तस्य पिता विद्वान्मातातीव च दुःखिता ॥
आर्त्ता पुत्रवियोगेन शापो दत्तो भयावहः ॥ ६५ ॥
॥ मातोवाच ॥ ॥
औषधादि प्रयुक्तं च वशीकर्तुं ममात्मजम् ॥
यदस्माकं वियोगाय वञ्चितो दुष्टचारिणि ॥ ६६ ॥
यस्माच्च मम पुत्रेण सा वियोगमकारयत् ॥
तेन जन्मान्तरे दीना पतिहीना भवत्वसौ ॥ ६७ ॥
॥ पितोवाच ॥ ॥
बाल्ये वयसि वर्त्तन्ती मातृहीना सुदुःखिता ॥
बहिष्कृता विवाहेन पितृहीना भविष्यसि ॥ ६८ ॥
॥ धर्म्म उवाच ॥ ॥
तस्मात्पूर्वकृतेनैव कर्मणा वरवर्णिनि ॥
इदं दुःखमनुप्राप्ता कन्यका भवती सती ॥ ॥ ६९ ॥
॥ पिङ्गलोवाच ॥ ॥
त्वया जन्मान्तरे वृत्तं मम प्रोक्तं द्विजोत्तम ॥
तस्माद्ब्रूहि भवन्प्रश्नं पृच्छन्त्या निश्चयं स्वकम् ॥ 5.2.81.७० ॥
इत्थं सुघोरपापाहं पापाचारा तथाऽधमा ॥
कथं तु ब्राह्मणेनाहमुत्पन्ना ब्रह्मवादिना ॥ ७१ ॥
दशसूनासमश्चक्री दशचक्रिसमो ध्वजः ॥
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥७२॥
एवं वदन्ति धर्मज्ञा ब्राह्मणाः संशितव्रताः ॥
तस्माद्द्विजोत्तमादस्मात्कथं जन्माभवन्मम ॥७३॥
॥ ब्राह्मण उवाच ॥ ॥
पापाचारपरापि त्वं ब्राह्मणानां कुले शुभे ॥
उत्पन्ना तत्र वक्ष्यामि कारणं शृणु पिङ्गले ॥ ७४ ॥
ब्राह्मणो विषयासक्तः कश्चिद्बद्धो नृपाज्ञया ॥
चौर्यं कर्म कृतं तेन वेश्यालुब्धेन सुन्दरि ॥ ७५ ॥
मुच्यतां च त्वयाप्युक्तं न चौरो नैव पातकम् ॥
यद्यनेन कृतं चौर्यं तन्मयैव कृतं भवेत् ॥ ॥ ७६ ॥
ददामि वित्तमधिकं मुच्यतां द्विजसत्तमः ॥
इत्युक्त्वा गृहमानीय तेनैव सहिता पुनः ॥ ७७ ॥
गृहं च कल्पितं शुभ्रं पुष्पधृपादिवा सितम् ॥
रमितश्च त्वया विप्रो यथासुखमनुत्तमम् ॥ ७८ ॥
तस्य पुण्यस्य माहात्म्याद्गता स्वर्गमनुत्तमम् ॥
समुत्पन्ना कुले पुत्री ब्राह्मणस्य विशेषतः ॥ ७९ ॥
शापाच्चैव वियोगं त्वं प्राप्ता पुत्र्यधुना परम् ॥ 5.2.81.८० ॥
॥ पिङ्गलोवाच ॥ ॥
पूर्वजन्मनि वेश्याहं जाता दुष्कृतकारिणी ॥
परद्रव्यपरा दुष्टा शौचाचारविवर्जिता ॥
इदानीं दुःखिता जाता पितृमातृवियोगतः ॥ ८१ ॥
पाणिग्रहणधर्मेण वर्जिता शापतः प्रभो ॥
प्रसादं कुरु मे विप्र को भवान्कथयस्व मे ॥ ८२ ॥
कथं जन्म न मे भूयात्कथं मुक्तिर्भवेन्मम ॥
भवबन्धविनिर्मुक्ता कथं यास्यामि सद्गतिम् ॥ ॥ ८३ ॥
॥ विप्र उवाच ॥ ॥
धर्मोहं द्विजरूपेण त्वां जिज्ञासुरिहागतः ॥
ममोपदेशात्तन्वङ्गि लिङ्गस्यैकस्य दर्शनात् ॥
क्षेत्रस्य च प्रसादात्त्वं परां मुक्तिमवाप्स्यसि ॥ ८४ ॥
॥ पिङ्गलोवाच ॥ ॥
कस्मिन्क्षेत्रे परा मुक्तिः कस्य लिङ्गस्य दर्शनात् ॥
लभ्यते सहसा धर्म एतदिच्छामि वेदितुम् ॥ ८५ ॥
॥ धर्म उवाच ॥ ॥
अस्ति गुप्ततमं क्षेत्रं महाकालवनं शुभम् ॥
सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ॥ ८६ ॥
तस्मिन्क्षेत्रवरे पुण्ये स्थाने योजनविस्तृते ॥
लिङ्गं मोक्षप्रदं पुत्रि पूर्वस्यां दिशि संस्थितम् ॥
तस्य दर्शनमात्रेण मुक्तिमाप्स्यसि पिङ्गले ॥ ८७ ॥
तस्य तद्वचनं श्रुत्वा धर्मस्य च यशस्विनि ॥
जगाम पिङ्गला तूर्णं यत्र तल्लिङ्गमुत्तमम् ॥
ददर्श परया भक्त्या पस्पर्श च पुनःपुनः ॥ ८८ ॥
दर्शनात्तस्य लिङ्गस्य तस्मिल्लिङ्गे लयं गता ॥
अत्र चावसरे देवाः प्रोचुस्तत्रैव संस्थिताः ॥ ८९ ॥
अन्यजन्मनि पापिष्ठा मुक्ता त्वं पिङ्गलेक्षणा ॥ 5.2.81.९० ॥
अतो लोकेषु विख्यातः पिङ्गलेश्वरसञ्ज्ञकः ॥
भविष्यति न सन्देहो महापातकनाशनः ॥ ९१ ॥
दिशि पश्यन्ति ये गत्वा पूर्वस्यां पिङ्गलेश्वरम् ॥
तेषां शतक्रतुस्तुष्टः पूजां सम्यग्विधास्यति ॥ ९२ ॥
देवा वश्या भविष्यन्ति स्वर्गस्तेषां न संशयः ॥
भविष्यति च वशगा नगरी चामरावती ॥ ९३ ॥
धर्मो धनेन सहितः कुले तेषां न नश्यति ॥
लोको धर्मेण चरतां वशगः सम्भ विष्यति ॥
पितॄणामक्षया तृप्तिर्भविष्यति न संशयः ॥ ९४ ॥
अश्वमेधसहस्रेण यत्पुण्यं समुदाहृतम् ॥
तत्सर्वं भविता सम्य क्पिङ्गलेश्वरदर्शनात् ॥ ९५ ॥
यानि लिङ्गानि क्षेत्रेऽस्मिन्गोप्यानि प्रकटानि च ॥
पूजितानि भवन्तीह पिङ्गलेश्वरदर्शनात् ॥ ९६ ॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पिङ्गलेश्वरदेवस्य शृणु कायावरोहणम् ॥ ९७ ॥
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये पिङ्गलेश्वरमाहात्म्यवर्णनन्नामैकाशीतितमोऽध्यायः ॥ ८१ ॥ ॥ छ ॥