०७९ हनुमत्केश्वरमाहात्म्यवर्णनम्

॥ श्रीमहादेव उवाच ॥ ॥
एकोनाशीतिकं विद्धि हनुमत्केश्वरं प्रिये ॥
यस्य दर्शनमात्रेण समीहितफलं लभेत् ॥ १ ॥
प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते ॥
आगता मुनयो देवि राघवं प्रतिनन्दितुम् ॥ २ ॥
रामेण पूजिताः सर्वे ह्यगस्तिप्रमुखा द्विजाः ॥
प्रहृष्टमनसो विप्रा रामं वचनमब्रुवन् ॥ ३ ॥
दिष्ट्या तु निहतो राम रावणः पुत्रपौत्रवान् ॥
दिष्ट्या विजयिनं त्वाऽद्य पश्यामः सह भार्यया ॥ ४ ॥
हनूमता च सहितं वानरेण महात्मना ॥
दिष्ट्या पवनपुत्रेण राक्षसान्तकरेण च ॥ ५ ॥
चिरं जीवतु दीर्घायुर्वानरो हनुमान्सदा ॥
अञ्जनीगर्भसम्भूतो रुद्रांशो हि धरातले ॥ ६ ॥
आखण्डलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥
ब्रह्मणा सहिताश्चैव दिक्पालाः पातु सर्वदा ॥ ७ ॥
श्रुत्वा तेषां तु वचनं मुनीनां भावितात्मनाम् ॥
विस्मयं परमं गत्वा रामः प्राञ्जलिरब्रवीत् ॥ ८ ॥
किमर्थं लक्ष्मणं त्यक्त्वा वानरोऽयं प्रशंसितः ॥
कीदृशः किम्प्रभावो वा किंवीर्यः किम्पराक्रमः ॥ ९ ॥
अथोचुः सत्यमेवैतत्कारणं वानरोत्तमे ॥
न त्वस्य सदृशो वीर्ये विद्यते भुवनत्रये ॥ 5.2.79.१० ॥
एष देव महाप्राज्ञो योजनानां शतं प्लुतः ॥
धर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं गतः ॥ ११ ॥
प्रादेशमात्रप्रतिमं कृतं रूपमनेन वै ॥
दृष्टा सम्भाषिता सीता पृष्टा विश्वासिता तथा ॥ १२ ॥
सेनाग्रगा मन्त्रिपुत्राः किङ्करा रावणात्मजाः ॥
हता हनुमता तत्र ताडिता रावणालये ॥ १३ ॥
भूयो बन्धविमुक्तेन सम्भाष्य तु दशाननम् ॥
लङ्का भस्मीकृता तेन पातकेनेव मेदिनी ॥ १४ ॥
न कालस्य न शक्रस्य न विष्णोर्वेधसोऽपि वा ॥
श्रूयन्ते तानि कर्माणि यादृशानि हनूमतः ॥ १५ ॥ ॥।
॥ राम उवाच ॥ ॥
एतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ॥
प्राप्तो मम जयश्चैव राज्यं मित्राणि बान्धवाः ॥ १६ ॥
सखायं वानरपतिर्मुक्त्वैनं हरिपुङ्गवम् ॥
प्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ १७ ॥
वाली किमर्थमेतेन सुग्रीवप्रियकाम्यया ॥
तदा वैरे समुत्पन्ने न दग्धस्तृणवत्कथम् ॥ १८ ॥
नायं विदितवान्मन्ये हनुमानात्मनो बलम् ॥
उपेक्षितः क्लिश्यिमाने किमर्थं वानराधिपे ॥ १९ ॥
एवं ब्रुवाणं रामं तु मुनयो वाक्यमब्रुवन् ॥
सत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ॥ 5.2.79.२० ॥
न बले विद्यते तुल्यो न गतौ न मतावपि ॥
अमोघवाक्यैः शापस्तु दत्तोऽस्य मुनिभिः पुरा ॥ २१ ॥
न ज्ञातं हि बलं येन बलिना वालिमर्दने ॥
बाल्येऽप्यनेन यत्कर्म कृतं नाम महात्मना ॥ २२ ॥
तन्न वर्णयितुं शक्यमेतस्य तु बलं महत् ॥
यदि श्रोतुं तवेच्छास्ति निशामय वदामहे ॥ २३ ॥
असौ हि जातमात्रोऽपि बालार्क इव मूर्त्तिमान् ॥
ग्रहीतुकामो बालार्कं पुप्लावाम्बरमध्यतः ॥ २४ ॥
तूर्णमाधावतो राम शक्रेण विदितात्मना ॥
हनुस्तेनास्य सहसा कुलिशेनैव ताडितः ॥ २५ ॥
ततो गिरौ पपातैष शक्रवज्राभिताडितः ॥
पततोस्य महावेगाद्वामो हनुरभज्यत ॥
अस्मिंस्तु पतिते बाले मृतकल्पेऽशनिक्षतात् ॥ २६ ॥
ततो वायुः समादाय महा कालवनं गतः ॥
लिङ्गमाराधयामास पुत्रार्थं पवनस्तदा ॥ २७ ॥
स्पृष्टमात्रस्तु लिङ्गेन समुत्तस्थौ प्लवङ्गमः ॥
जलसिक्तं यथा सस्यं पुनर्जीवि तमाप्तवान् ॥ २८ ॥
प्राणवन्तमिमं दृष्ट्वा पवनो हर्षितस्तदा ॥
प्रत्युवाच प्रसन्नात्मा पुत्रमादाय सत्वरम् ॥ २९ ॥
स्पर्शनादस्य लिङ्गस्य मम पुत्रः समुत्थितः ॥
हनुमत्केश्वरो देवो विख्यातोऽयं भविष्यति ॥ 5.2.79.३० ॥
एतस्मिन्नन्तरे शक्रः समायातः सुरैर्वृतः ॥
नीलोत्पलमयीं मालां सम्प्रगृह्येदमब्रवीत् ॥ ३१ ॥
मत्करोत्सृष्टवज्रेण यस्मादस्यहनुर्हतः ॥
तदेष कपिशार्दूलो हनुमांस्तु भविष्यति ॥ ३२ ॥
वरुणोऽस्व वरं प्रादान्नास्य मृत्युर्भविष्यति ॥
यमो दण्डादवध्यत्वमारोग्यं धनदो ददौ ॥ ३३ ॥
सूर्येण च प्रभा दत्ता पवनेन गतिर्द्रुता ॥
लिङ्गेन च वरो दत्तो देवानां सन्निधौ तदा ॥ ३४ ॥
आयुधानां हि सर्वेषामवध्योऽयं भविष्यति ॥
अजरश्चामरश्चैव भविष्यति न संशयः ॥ ३५ ॥
अमित्रभयदो ह्येष मित्राणामभय प्रदः ॥
अजेयो भविता युद्धे लिङ्गेनोक्तं पुनःपुनः ॥ ३६ ॥
शत्रोर्बलोत्सादनाय राघवप्रीतये सदा ॥
कियत्कालं बलं स्वीयं न स्मरिष्यति शापतः ॥ ३७ ॥
हते तु रावणे भूयो रामस्यानुमते स्थितः ॥
विभीषणं प्रार्थयित्वा मामत्र स्थापयिष्यति ॥ ३८ ॥
ततो मां त्रिदशाः सर्वे पूजयिष्यन्ति भाविताः ॥
तेनैव नाम्ना विख्यातिं पुनर्यास्यामि भूतले ॥ ३९ ॥
अथ गन्धवहः पुत्रं प्रगृह्य गृहमानयत् ॥
अञ्जनायै तदाचख्यौ वरलब्धिं च लिङ्गतः ॥ 5.2.79.४० ॥
एवं लिङ्गप्रभावाच्च बलवान्मारुतात्मजः ॥
स जातस्त्रिषुलोकेषु राम तस्मात्प्रशस्यते ॥ ४१ ॥
पराक्रमोत्साहमति प्रतापैः सौशील्यमाधुर्यनयादिकैश्च ॥
गाम्भीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकोऽस्ति लोके ॥ ४२ ॥
ममेव विक्षोभितसागरस्य लोकान्दि धक्षोरिव पावकस्य ॥
प्रजा जिहीर्षोरिव चातकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ४३ ॥
एतद्वै कथित तुभ्यं यन्मां त्वं परि पृच्छसि ॥
हनूमतोऽस्य बालस्य कर्माण्यद्भुतविक्रम ॥ ४४ ॥
दृष्टः सभाजितश्चापि राम गच्छामहे वयम् ॥
एवमुक्त्वा गताः सर्वे मुनयोऽवन्तिमण्डलम् ॥
पूजयामासुरीशानं हनुमत्केश्वरं शिवम् ॥ ॥
समर्चयन्ति ये भक्त्या लिङ्गं त्रिदशपूजितम् ॥
हनुमत्केश्वरं देवं ते कृतार्थाः कलौ युगे ॥ ४६ ॥
व्रजन्त्येव सुदुष्प्राप्यं ब्रह्मसायुज्यमव्ययम्।
सम्प्राप्य तु पुनर्जन्म लभन्ते मोक्षमव्ययम् ॥ ४७ ॥
यः पश्यति नरो लिङ्गं हनुमत्केश्वरॆ प्रिय ॥
सोऽधिकं फलमाप्नोति सर्वदुःखविवर्जितः ॥ ४८ ॥
सर्वलोकेषु तस्यैव गतिर्न प्रतिहन्यते ॥
दिव्येनैश्वर्ययोगेन युज्यते नात्र संशयः ॥ ४९ ॥
बालसूर्यप्रतीकाशविमानेन सुवर्चसा ॥
वृतः स्त्रीणां सहस्रैस्तु स्वच्छदगमनागमः ॥ 5.2.79.५० ॥
विचरत्यविचारेण सर्वलोकान्दिवौकसाम् ॥
स्पृहणीयतमः पुंसां सर्ववर्णोत्तमोधुना ॥ ५१ ॥
स्वर्गाच्च्युतः प्रजायेत कुले महति रूपवान् ॥
धर्मज्ञो रुद्रभक्तश्च सर्वविद्यार्थपारगः ॥५२॥
राजा वा राजतुल्यो वा दर्शनादस्य जायते ॥
स्पर्शनात्परमं पुण्यं यजनात्परमं पदम् ॥५३॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
हनुमत्केश्वरेशस्य स्वप्नेश्वरमथो शृणु ॥ ५४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य उमामहेश्वरसंवादे हनुमत्केश्वरमाहात्म्यवर्णनन्नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ ॥ छ ॥